पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/329

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८५
 
विभूतिपादः तृतीयः


[भाष्यम्]

ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्तस्यां य आलोकः तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य १तमधिगच्छति ॥ २५ ॥

[ सूत्रम् ]

भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥

[ भाष्यम् ]

तत्प्रस्तारः सप्त लोकाः । तत्रावीचेः प्रभृति मेरुपृष्टं यावदित्येवं भूलोंकः । मेरुपृष्ठादारभ्य-आ ध्रुवात् ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः । ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः । चतुर्थः प्राजापत्यो महोलोकः । त्रिविधो ब्राह्मः । तद्यथा -जनलोकस्तपोलोकः सत्यलोक इति ॥ ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् । माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः ।। इति संग्रहश्लोकः ॥

तत्नावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः । यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायुर्दीर्घमाक्षिप्य जायन्ते । ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि । भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः । तस्य राजतवैदूर्यस्फटिकहेममणिमयानि श्रृङ्गाणि । तत्र वैदूर्यप्रभाऽनुरागात् नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः । श्वेतः पूर्वः । स्वच्छः पश्चिमः । कुरण्टकाभ उत्तरः ! दक्षिणपार्श्वे चास्य जम्बू ; यतोऽयं जम्बूद्वीपः । तस्य सूर्यप्रचारात् रात्रिंदिवं लग्नमिव वर्तते । तस्य नीलश्वेतश्रृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसाहस्रायामाः । तदन्तरेषु त्रीणि वर्षीणि नव नव योजनसाहस्रणि रमणकं हिरण्मयमुत्तराः कुरव इति ।

निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः ।

                     (विवरणम्)

सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वा अर्थे विन्यस्य स्थापयत्वा तमधिगच्छति ॥ २५ ॥ 1. तमर्थमू