[ भाष्यम् ]
मनोऽभिमन्तव्येनार्थेनोपरक्तं, स्वयं च विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्याऽभिसंबद्धं, तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्म'कमेिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते ॥ तदनेन " चित्तसारूप्येण भ्रान्ताः केचित् तदेव चेतनमित्याहुः ।
[ विवरणम् ]
कामात् पुनः कारणात् पुरुषस्य चेत्ताकारापत्तिः । तस्यां वा सत्यां स्वबुद्धिसंवेदनम् । कुतो वैनाशिकानां चित्तमेव ग्राह्यं ग्राहकं चेति भ्रान्तिरित्याह-दृष्टृदृश्योपरक्तं चित्तं सर्वार्थम् । द्रष्टा पुरुषो दृश्यं शब्दादि ताभ्याम् उपरक्तं चित्तं सर्वार्थं पुरुषस्य भोगापवर्गार्थं भवति ।मनोऽभिमन्तव्येनार्थेन अयस्कान्तमणिदेशीयेन विषयेण उपरक्तं स्वयं च विषयत्वात् पुरुषस्य विषयिणा पुरुषेण सन्निहितेन आत्मीयया वृत्त्या मानसेन प्रत्ययेन विषयतया अभिसम्बद्धम् ॥
तदेतच्चित्तम् आत्मवृत्तिद्वरेण पुरुषेण सम्बन्धाद्द्रष्टुः स्वरूपोपरक्तं शब्दादिना च मन्तव्येनोपरक्तमिति द्रष्टृदृश्योपरक्तं चित्तमेव न पुरुषः । द्रष्टृदृश्योपरक्तम् इत्यस्य व्याख्यानं करोति-विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम् ॥
कथं पुनः स्वयमचेतनं सच्चेतनस्वरूपाप्न्नमिति ? नैष दोषः--पुरुषेण नित्यसन्निधानाच्चेतनमिव । तदेवाविवेकिभिश्चेतनमित्युच्यते । न तथा विषयाः । नित्यमचेतनात्मका हि ते । स्वतस्तु चित्तमचेतनमेवेति चेतनाचेतनस्वरूपापन्नं इत्युच्यते ॥
विषयात्मकमिव शब्दादिस्वरूपमात्रमिव चेत्यर्थः । अचेतनं चेतनामिव पुरुषस्वरूपापन्नमिव चेत्यर्थः । स्फटिकमणिकल्पं यथा स्फटिकमणिरलक्तकादिसन्निधौ तदाकारतां बिभर्ति, तथैव तत् सर्वार्थं चित्तम् उच्यते ॥
तस्मात् अनेन चित्तसारूप्येण भ्रान्ताः केचित् । एतत्तु चित्तसारूप्यं वैशेषिकाणां प्रमोहकारणम् । वैशेषिकादयस्तु चितसारूप्यमाहेन्द्रजालव्यामोहितचेतसः तदेव चित्तं चेतनभित्याहुः । कथम् ? यस्मान्मनःपुरुषसंयोगजं चैतन्ये गुणः उच्छेदनीय इति मन्यन्ते । वैनाशिकेभ्यस्त्वयं विशेषः-स्थिरमेकं धर्मिणमिच्छन्तीति ॥
1. मनो हि 2. तत्स्वयं 3. कमप्यविषयात्मकमि