एतत् पृष्ठम् परिष्कृतम् अस्ति
६
[१ समाधिपादे]
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-
नमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा
दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयमतो
विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं
तामापि ख्याति निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स .
निर्मजः समाधिः । न तत्र किंचित्संप्रज्ञायत इत्यसंप्रज्ञातः ।
द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥
हनिहेतुं चितिशक्तेश्चोपादानहेतुं निरोधसमाधिमवतारयितुं चितिशक्तेः साधुतामसाधुतां च विवेकल्यातेर्दर्शयति--चितिशक्तिरित्यादि । सुखदुःखमोहात्मकत्वमशुद्धिः । सुखमो- हावपि हि विवेकिनं दुःखाकुरुतः । अतो दुःखबद्धेयौ । तथा चातिसुन्दरमप्यन्तवडुनोति। तेन तदपि हेयमेव विवेकिनः । सेयमशुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तम्--- शुद्धा चानन्ता चेति । ननु सुखदुःखमोहात्मकशब्दादीनियं चेतयमाना तदाकारापन्ना कथं विशद्धा तदाकारपरिग्रहपरिवर्जने च कुर्वती कथमनन्तेत्यतः उक्तम्--दर्शितविष- येति । दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ता । भवेदेतदेवं यदि बुद्धिवञ्चितिशक्ति- विषयाकारतामापयेत, किंतु बुद्धिरेव विषयाकारेण परिणता सत्यतदाकारायै चितिशक्त्यै विषयमादर्शयति । ततः पुरुषश्चेतयत इत्युच्यते । ननु विषयाकारां बुद्धिमनारूढायाश्चितिशक्तः कथं विषयवेदनं विपयारोहे वा कथं न तदाकारापत्तिरियत उक्तम्--अतिसंक्रमेति । प्रतिसंक्रमः संचारः। स चितेर्नास्तीत्यर्थः । स एव कुतोऽस्या नास्तीयत उक्तम्--अपरि- णामिनीति । न चितेत्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति । येन क्रिया. रूपेण परिणता सती बद्धिसंयोगेन परिणमेत चितिशक्तिः । असंक्रान्ताया अपि विष. यसंवेदनमुपपादयिष्यते । तत्सिद्धं चितिशक्तिः शोभनेति । विवेकख्यातिस्तु बुद्धिसत्त्वा- स्मिकाऽशोभनेत्युक्तम्-- अतश्चितिशक्तेविपरीतेति । यदा च विवेकख्यातिरपि हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः । ततस्तद्धेतोनिरोधसमाधेरवतारो युज्यत इत्याह---अतस्तस्यामिति । ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकल्या- तिमपि निरुणद्धीत्यर्थः । अथ निरुद्ध शेषवृत्ति चित्तं कीदृशमित्यत आह--तदवस्थ. मित्यादि ।' स निरोधोऽवस्था यस्य तत्तथोक्तम् । निरोधस्य स्वरूपमाह--'स निर्बीज इति । क्लेशसहितः कर्माशयो जात्यायुर्भोगबीजं तस्मानिर्गत इति निर्बीजः । अस्यैव योगिजनप्रसिद्धामन्यर्थसंज्ञामादर्शयति--न तत्रेति । उपसंहरति--द्विविधः स योग- चित्तत्तिनिरोध इति ॥ २॥