पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
[ २ साधनपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


यथा रूपस्याऽऽलोकस्तथा रूपज्ञानं, विकारकारणं मनसो विषयान्तरम् । यथाऽग्निः पाक्यस्य । प्रत्ययकारणं धूमज्ञान- मग्निज्ञानस्य । प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः । वियोगकारणं तदेवाशुद्धॆः । अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः । एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्के

मिन्द्रियद्वारा वा स्वतो या विषयस्य संस्क्रियाऽभिव्यक्तिस्तस्याः कारणं यथा रूप- स्याऽऽलोकः । विकारकारणं मनसो विषयान्तरम् । यथा हि कण्डोः समाहितम नसो वल्लकांविपञ्चयमानपञ्चमस्वरश्रवणसमनन्तरमुन्मीलिताक्षस्य स्वरूपलावण्ययौवनसंप- न्नामप्सरसं प्रम्लोचामीक्षमाणस्य समाधिमपहाय तस्यां सक्तं मनो बभूवेति । अत्रैव निदर्शनमाह-यथाऽग्निः पाक्यस्य तण्डुलादेः कठिनावयवसनिवेशस्य प्रशिथिलाव- यवसंयोगलक्षणस्य विकारस्य क रणम् । सत एव विषयस्य प्रत्ययकारणं धूमज्ञानम- ग्निज्ञानस्येति । ज्ञायत इति ज्ञानमग्निश्वासौ ज्ञानं चेत्यग्निज्ञानं तस्य । एतदुक्तं भवति- वर्तमानस्यैवाग्नज्ञे॔यस्य प्रत्ययकारणतया कारणमिति । औत्सर्गिकी निरपेक्षाणां कारणानां कार्यक्रिया प्राप्तिस्तस्याः कुतश्चिदपवादोऽप्राप्तिः । यथा निम्नोपसर्पणस्वभावानामापां प्रति- बन्धः सेतुना तथेहापि बुद्धिसत्त्वस्य सुखप्रकाशशीलस्य स्वाभाविकी सुखविवेकख्याति. जनकता प्राप्तिः । सा कुतश्चिदधर्मात्तमसो वा प्रतिबन्धान्न भवति । धर्माद्योगाङ्गानुष्ठा. नाद्वा तदपनये तद्प्रतिबद्धवृत्तिस्वभावत एव तज्जनकतया तदाप्नोति । यथा वक्ष्यति- “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ” [यो० सू० ४।३] इति । तदेवं विवेकख्यातिलक्षणकार्यापेक्षया प्राप्तिकारणमुक्तम् । अवान्तरकार्यापेक्षया तु तदेव वियोगकारणमित्याह-वियोगकारणमिति । माह'त्वकारणमाह----अन्यत्व- कारणं यथा सुवर्णकारः सुवर्णस्य, कटककुण्डलकेयूरादिभ्यो भिन्नाभिन्नस्य भेदविव- क्षया कटकादिभिन्नस्याभेदविवक्षया कटकाद्यभिन्नस्य सुवर्णस्य कुण्डलादन्यत्वम् । तथा च कटककारी सुवर्णकारः कुण्डलादभिन्नात्मुवर्णादन्यत्कुर्वन्नन्यत्वकारणम् । अग्निरपि पाक्य. स्यान्यत्वकारणं यद्यपि तथाऽपि धर्मिणो धर्मयोः पुलाकत्वतण्डुलत्वयोर्मेदाक्विक्षया धर्भयोरुपजनापायेऽपि धर्म्यनुवर्तत इति न तस्यान्यत्वं शक्यं वक्तुमिति विकारमात्रका- रणत्वमुक्त मिति न संकरः । न च संस्थानभेदो धर्मिणोऽन्यत्वकारणमिति व्याख्येयम् । सुवर्णकार इत्यस्यासंगतेः । बाह्यमन्यत्वकारणमुपन्यस्याऽऽध्यात्मिकमुदाहरति-एवभे- कस्येति । अविद्या कमनीयेयं कन्यकेत्यादिज्ञानम् । तन्मोहयोगात्स एवं स्त्रीप्रत्ययो [१]

  1. १ क, ख. श. हि मा । २ ख. ज. हित मनो य । ३ ख. ज. 'केब'। ५. ‘पायभावेऽपि । ५.म् । संमोह।