पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
पाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-[३ विभूतिपादे-


सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला
गन्धमादनसीयानः । मध्ये वर्षमिलावृतम् । तदेतद्योजनशत-
साहस्रं सुमेरोर्दिशिदिशि तदर्धेन व्यूढम् ।
 स खल्वयं शनसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणो-
दधिनावलयाकृतिना वेष्टितः । ततश्च द्विगुणा द्विगुणाः शाककुश-
क्रौञ्चशाल्मलंगोमेध(प्लक्ष)पुष्करद्वीपाः, समुद्राश्च सर्षेपराशिकल्पाः
सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः।
सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः
पञ्चाशद्योजनकोटिपरिसंख्याताः । तदेतत्सर्वे सुप्रतिष्ठितसंस्थान-
मण्डमध्ये व्यूढम् । अण्डं च प्रधानस्याणुरवयवो यथाऽऽकाशे
खद्योत इति ।
 तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया असुरगन्धर्वकि-
नरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकू-
ष्माण्डविनायकाः प्रतिवसन्ति । सर्वेषु द्वीपेषु पुण्यात्मानो
देवमनुष्याः ।
 सुमेरुस्त्रिदशानामुद्यानभूमिः । तत्र मिश्रवनं नन्दनं चैत्ररथं
सुमानसमित्युद्यानानि । सुधमो देवसभा । सुदंशेनं पुरम् ।
वैजयन्तः प्रासादः । ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षे-
पनियमेनोपलक्षितपचाराः सुमेरोरुपयुपरि संनिविष्टां दिवि
विपरिवर्तन्ते ।


यमेवास्य भागं सूर्यस्त्यजति तत्र रात्रिः । यमेव भागमलं करोति तत्र दिनमिति । सक- लजम्बूद्वीपपरिमाणमाह-तदेतद्योजनशतसाहस्रम् । किंभूतं योजनानां शतसाहस्रमि- स्याह---सुमेरोदिशि दिशि तदर्धेन पञ्चायोजनसहस्रेण व्यूढं संक्षिप्तम् ।। ___ यतोऽस्य मध्यस्थः सुमेरुः समुद्राश्च सर्षपराशिकल्पा इति द्विगुणा द्विगुणा इति संबन्धः । यथा सर्षपराशिन ब्रीहिराशिरिवोच्छितो नापि भूमिसमस्तथा समुद्रा अपीत्यर्थः । विचित्रैः शैलैरवतंसैरिव सह वर्तन्त इति सविचित्रशैलावतंसा द्वीपाः । तदेतत्सर्व संद्वीपविपिननगनगरनीरधिमालावलयं लोकालोकपरिवृतं विश्वंभरामण्डलं ब्रह्माण्डमध्ये व्यूढ़ संक्षिप्तं सुप्रतिष्ठितं संस्थानं संनिवेशो यस्य तत्तथोक्तम् ।। ये यत्र प्रतिवसन्ति तत्र तान्दर्शयति-तत्र पाताल इति ।। __सुमेरोः संनिवेशमाह-सुमेरुरिति । तदेवं भूर्लोक सप्रकारमुक्त्वा सप्रकारमेवान्स-

रिक्षलोकमाह-ग्रहोत । विक्षेपो व्यापारः ।


१ ग. °लमगध । २ ग. प. उ. ज. 'टा विप° । ३ ज. झ. 'शता योज। ४ क. सप्तधी।