एतत् पृष्ठम् परिष्कृतम् अस्ति
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सू० ५१]
पातञ्जलयोगसूत्राणि।
चत्वारः खल्बमी योगिनः प्रायमकल्पिको मभूमिक प्रज्ञा- ज्योतिरतिक्रान्तभावंनीयस्रेति । तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः । ऋतंभरप्रज्ञो, द्वितीयः । भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनादिमान् । चतुर्थो यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग एकोऽर्थः । सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा । तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्ववैशुद्धिमनुपश्यन्तः स्थानरुपनिमन्त्रयन्ते भो इहाऽऽस्यता- मिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायन- मिदं जरामत्यु बाधते वैहायसमिदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी व नोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमिति । एवम- भिधीयमानः सङ्गदोषान्भावयेद्घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिदासादितः क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषयवा.' -------------------------------------------------------- सन्ति ते स्थानिनो महेन्द्रादयस्तैरुपनिमन्त्रणं तस्मिन्सङ्गश्च स्मयच न कर्तव्यः पुनरनिष्ट. प्रसङ्गात् । तत्र यं देवाः स्थानरुपमन्त्रयन्ते तं योगिनमेकं निर्धारयितुं यावन्तो योगिनः संभवन्ति तावत एवाऽऽह-चत्वार इतिं । तत्र प्राथमकल्पिकस्य स्वरूपमाह- तत्राभ्यासीति । प्रवृत्तमात्रं न पुनर्वशीकृतं उयोतिञानं परचित्तादिविपयं यस्य स तथा । द्वितीयमाह - ऋतंभरमज्ञ इति । यत्रेदमुक्तम्-" ऋतंभरा तत्र प्रज्ञा " इति । स हि भतेन्द्रियाणि जिगीषुः । तृतीयमाह-भूतेन्द्रियजयीति । तेन हि स्थूलादिसंयमेन प्रहणादिसंयमन च भूतेन्द्रियाणि जितानि । तमंवाऽऽह-सर्वेषु मावितेषु, निष्पादितेपु भतेन्द्रियजयाः परचित्तादिज्ञानादिषु कृतरक्षाबन्धो यतस्तेभ्यो न च्यवते भावनीयेषु निष्पा- दनीयेषु विशो
कादिषु परवैराग्यपर्यन्तेष कर्तव्यसाधनवान्पुरुषप्रयत्नस्य साधनविषयस्यैव
साध्यनिष्पादकत्वात् । चतुर्थमाह---चतुर्थ इति । तस्य हि भगवतो जीवन्मुक्तस्य चर. मदेहस्य चित्तप्रतिसर्ग एकोऽर्थः । तदेतेषु यो गिष्पनिमन्त्रणविषयं योगिनमवचारयति-तत्र मधुमतीमिति । प्राथमक- लिपके तावन्महे द्रादीनां तत्प्राप्तिशकैव नास्ति । तृतीयोऽपि तैनोपनिमन्त्रणीयो भनेन्द्रि- यवशित्वेनैव तत्प्राप्तेः । चतुर्थेऽपि परवैर,ग्यसंपत्तेरासङ्गशङ्का दरोत्सारितवैति पारिशेष्यावि- तीय एव ऋतंभरप्रशस्तदुपनिमन्त्रणविषय इति । वैहायसमाकाशगामि, अक्षयमविनाशि, अजरं सदाऽभिनवम् ।