पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२ . वाचस्पनिकृनटीकासंबलितव्यासभाध्यसमेतानि- [३ विभूतिपादे- तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति । तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौरिति । द्वयोरामलकयोर्जातिलक्षणसारूप्याद्देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वं पूर्वमेतदुत्तरमैतदितिप्रविभागानुपपत्तिः । असंदिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकनज्ञानादिति । . - कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद्देशाद्भिन्नः । ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने । पूर्वादिः। कालाक्षीस्वस्तिमत्योर्लेक्षणभेदः परमिति । द्वयोरामलकयोस्तुल्याऽऽमलकत्व जातिर्व तुलादि लक्षणं तुल्यं देशभेदः परमिति । यदा तु योगिज्ञानं जिज्ञासुना केनचित्पूर्वामलकम- न्यव्यग्रस्य योगिनो ज्ञातुरुत्तरदेश उपावर्त्यत उत्तरदेशमामलकं ततोऽपसार्य पिधाय वा तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः प्राज्ञस्य लौकिकस्य त्रिप्रमाणीनिपुण. स्यासंदिग्धेन च तत्त्वज्ञानेन भवितव्यं विवेकजज्ञानवतो योगिनः संदिग्धत्वानुपपत्तेः । अत उक्तं सूत्रकृता-~-ततः प्रतिपत्तिः। तत इति व्याचष्टे---विवेकजज्ञानादिति । क्षणतत्क्रमसंयमाज्जातं ज्ञानं कथमामलकं तुल्यजातिलक्षणदेशादामलकान्तराद्विवेचय- तीति पृच्छति--कथमिति । उत्तरमाह-पूर्वामलकसहक्षणो देशः पूर्वामलकेनैकक्षणो देशस्तेन सह निरन्तरपरिणाम इति यावत् । उत्तरामलकसहक्षणादेशादुत्तरामलकनिरन्तरपरिणामाद्भिन्नो भवतु देशयोर्भेदः किमायातमामलकभेदस्येत्यत आह-ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने, स्वदेशसहितो यः क्षणस्तस्वाऽऽमलकस्य कालफला स्वदेशेन सहौत्तराधर्यरूपपरिणामलक्षिता सा स्वदेशक्षणस्तस्यानुभवः प्राप्तिर्वा ज्ञानं वा तेन भिन्ने आमलके यथोरामलकयोः पूर्वोत्तराभ्यां देशाभ्यामौत्तराधर्मपरिणामक्षण आसीत्तयोर्देशान्तरोत्तराधर्यपरि- णामक्षणविशिष्टत्मनुभन्संयमी ते भिन्न एव प्रत्येति । संप्रति तद्देशपरिणामेऽपि पूर्वभिन्नदेशपरिणामाद्विशिष्टत्य.. चैतद्देशपरिणामक्षणस्य संयमतः साक्षात्करणात् । तदिदमुक्तम् । १ क. ब. व. .तयां हे।२क, ख. य. 'वर्तते। ३ क.स. ख.न.बयोगीते