तत्र कायेन्द्रियाणामन्य जातीयपरिणतानाम्--
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥[१]
पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेपामपूर्वावयवानुप्रवे.
शाद्भवंति । कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृहन्त्यापूरण
धर्मादिनिमित्तमपेक्षमाणा इनि ॥ २ ॥
निमित्तमप्रोजकं प्रकृतीनां वरण-
दस्तु ततः क्षेत्रिकवत् ॥ ३ ॥
न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति । न
कार्येण कारणं प्रवर्त्यत इति । कथं तर्हि, वरणभेदस्तु ततः
क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपा पूर्णाकेदारान्तरं: पिप्ला-
वयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकपत्यावरण
स्वासां भिनत्ति तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाला-
वयन्ति तथा धर्मः प्रकृतीनामावरणधर्म भिनत्ति तस्मिन्भिन्ने
पठति-तत्र कायेन्द्रियाणामन्य जातीयपरिणताना--नात्यन्तरपरिणामः प्रक-
त्यापूरात् । मनुष्यजातिपरिणत:नां कायेन्द्रियाणां यो देवतिय जातिपरिणामः स खलु
प्रकृत्यापुरात् । कायस्य हि प्रकृतिः पृथिव्यादीनि भूतानि । इन्द्रियाणां च प्रकृतिर
स्मिता, तदबयवानुप्रवेश आपरम्तस्माद्भवति । तदिदमाह पूर्वपरिगामेति । ननु यद्या-
पूरेणानुग्रहः कस्मात्पुनरसी न सदातन इत्यत आह-धर्मादीति । तदनेन तस्यैव शरी-
रस्थ बाल्यकौमारयोवनवार्थकादीनि च न्यग्रोधधानायां न्यग्रोधतरुभावश्च वह्निकणिकाया-
स्तुणराशिनिवेशिताया वा प्रोद्भबज्ज्वालासहस्रसमालिङ्गितगगनमण्डलयं च व्याख्यातम् ॥२॥
प्रकृत्यापूरादित्युक्तं तदं सदिह्यते-कमापरः प्रकृतीनां स्वाभाविको
धर्मादिनिमित्तो वेति । किं प्राप्त सतीष्वपि प्रकृतिषु कदाचिदापूराद्धर्मादि.
निमित्तश्रवणाच तन्निमित्त एपेति प्राप्तम् । एवं प्राप्त अह-निमित्तमप्रयोजक
प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । सत्यं धर्मादयो निमित्तं न तु प्रयो-
जकास्तेषामपि प्रकृतिकार्यस्यात् । न च कार्य कारणं प्रयोज़यति तस्य तदधीनो.
त्पत्तितया कारणपरसन्त्रात्रात् । स्वतन्त्रस्य च प्रयोजकत्रात् । न खलु कुलालम-
- ↑ १
. स. च. जे. जातिय
तं प्रयो