पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
[५ कैवल्यपादे--
वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि-


स्वयमेव प्रकृतयः स्वं स्वं विकारमालावयन्ति । यथा वा स
एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्या रसा.
धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि मुद्गवेधुकश्यामाकादीस्त-
तोऽपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रवि-
शन्ति, तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य, शुद्धयशुद्धयो-
रत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति । अत्र
नन्दीश्वरादय उदाहायोः । विपर्ययेणाप्यधर्मो धर्म बाधते ।
ततश्चाशुद्धिपरिणाम इति । तत्रापि नहुषाजगरादय उदा.
हार्याः ॥ ३ ॥[१]
यदा तु योगी वहून्कायानिमिमीते तदा किमेकमनस्कास्ते
भवन्त्यथानेकमनस्का इति-
निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥
अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति,
ततः सचित्तानि भवन्तीति ॥ ४॥


न्तरेण मृद्दण्डचक्रसलिलादय उत्पित्सितेनोत्पन्नेन वा घटेन प्रयुज्यन्ते । किं तु स्वतन्त्रण कुलालेन । न च पुरुषार्थाऽपि प्रवर्तकः । किं तु तदुद्देशनेश्वरः । उद्देश्यता- मात्रेण पुरुषार्थः प्रवर्तक इत्युच्यते । उत्पित्सोस्त्वस्य पुरुषार्थस्याव्यक्त य स्थितिकारणत्वं युक्तम् । न चैतावता धर्मादीनामनिमित्तता प्रतिबन्धापनयनमात्रेण क्षेत्रिकवदुपपत्तेरीश्वर- स्यापि धर्माधिष्ठानार्थ प्रतिबन्धापनय एव व्यापारो वेदितव्यः । तदेतन्निगदव्याख्यातेन भाष्येणोक्तम् ॥ ३ ॥
 प्रकृत्यापूरेण सिद्धीः समर्थ्य सिद्धिविनिर्मितनानाकायतिचित्तैकत्वनानात्वे विचार- यति -यदा विति । तत्र नानामनस्त्वे कायानां प्रतिचित्तमभिप्रायभेदादेकाभिप्रायानु- नुरोधश्च परस्परप्रतिसंधानं च न स्यातां पुरुषान्तरवत् । तस्मादेकमेव चित्तं प्रदीपवद्विसा- रितया बहूनपि निर्माणकायान्व्यानोतीति प्राप्त आह--निर्माणचित्तान्यस्मितामात्रात् । यद्यावज्जीचच्छरीरं तत्सर्वमेकैकासाधारणचित्तान्वितं दृष्टम् । तद्यथा चैत्रमैत्रादिशरीरम् । तथा च निर्माणकाया इति सिद्धं तेषामपि प्रातिस्विकं मन इत्यभिप्रायेणाऽऽह-अस्मि- तामात्रमिति ॥ ४ ॥

  1. १ ग. घ. हु. अ. भवन्ति । २ ख. 'स्त्वपु ! ज. 'स्त्वस्या' । ३ क. र्थस्य व्य° :
    ४ ज. णत्वमुक्त।