पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२

वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि

[ ४ कैवल्यपादे-

ते च कर्मवासनानुरूपाः । यथा च वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृति:। स्मृतेश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशांद्व्यज्यन्ते । अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदा- दानन्तर्यमेव सिद्धमिति ॥ ९॥

तासामनादित्वं चाऽऽशिषो
नित्यत्वात् ॥ १० ॥

 तासां वासनानामाशिषो नित्यत्वादनादित्वम्। येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते सा न स्वाभाविकी । कस्मात् । जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् । न च स्वाभाविकं वस्तु निमित्तमुपादत्ते ।


कल्पेरन्नित्यत आह--ते च कर्मवासनानुरूपाः । यथाऽपूर्व स्थायि क्षणिककर्मनिमित्तमप्येवं क्षणिकानुभवानिमित्तोऽपि संस्कारः स्थायी किंचिद्भेदाधिष्ठानं च सारूप्यमन्यथाऽभेदे तत्वेन सादृश्यानुपपत्तेरित्यर्थ: । सुगममन्यत् ॥ ९॥

 स्यादेतव्यज्येरन्पूर्वपूर्वतरजन्माभिसंस्कृता वासनाः । यदि पूर्वपूर्वतरजन्मसद्भावे प्रमाणं स्यात्तदेव तु नास्ति । न च जातमात्रस्य जन्तोहर्षशोकदर्शनमात्रं प्रमाणं भवितुमर्हति, पद्मादिसंकोचविकासवत्स्वाभाविकत्वेन तदुपपत्तेरित्यत आह-तासामनादित्वं चाऽऽशिषो नित्यत्वात् । तासां वासनानामनादित्वं च न केवलमानन्तर्यमिति चार्थः । आशिषो नित्यत्वात् । आत्माशिषो वासनानामनादित्वे नित्यत्वाव्यभिचारादिति । ननु स्वाभाविकत्वेनाप्युपपत्तेरसिद्धमाशिषो नित्यत्वमित्यत आह-येयमिति । नास्तिकः पृच्छति-कस्मात् ।उत्तरं-जातमात्रस्य जन्तोरिति । अत एवैतस्मिञ्जन्मन्यननुभूतमरणधर्मकस्य मरणमेव धर्मः सोऽननुभूतो येन स तथोक्तस्तस्य मातुरङ्कात्प्रस्खलतः कम्पमानस्य माङ्गल्यचक्रादिलाञ्छितं तदुरःसूत्रमतिगाढं पाणिग्राहमवलम्बमानस्य बालकस्य कम्पभेदानुमिता द्वेषानुषक्ते दुःखे या , स्मृतिस्तन्निमित्तो मरणत्रासः कथं भवेदिति । ननूक्तं स्वभावादित्यत आह-न च स्वाभाविकं वस्तु निमित्तमुपादत्ते गृह्णाति स्वोत्पत्तौ । एतदुक्तं भवति-बालकस्येदृशो दृश्यमानः कम्पो भयनिबन्धन ईदृशकम्पत्वादस्मदादिकम्पवत् । बालकस्य भयं द्वेषदुःखस्मृतिनि-


 १ क. ख. च. ज. नारू । २ म. प. ड. 'त्येते । ३ क. च. ति । वासनाः संस्कारा आशया इत्यर्थः ॥ ९॥ ४ ख. स. "जन्मभिः । ५ झ. 'दित्वं नि।