पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० १०]

पातञ्जलयोगसूत्राणि ।

१८३

तस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात्काश्चिदेव
वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति ।

 घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः संसारश्च युक्त
इति।


मित्तं भयत्वादस्मदादिभयवत् । आगामिप्रत्यवायोत्प्रेक्षालक्षणं च भयं न दुःखस्मृतिमात्राद्भवति, अपि तु यतो बिभेति तस्य प्रत्यवायहेतुभावमनुमाय संप्रत्यपि प्रत्यवायं भयं च विदध्यादिति शङ्कते । तस्माद्यज्जातीयादनुभूतचराद्द्वेवेषानुपक्तं दुःखमुंपपादितं तस्य स्मरणात्तज्जातीयस्यानुभूयमानस्य तद्दु:खहेतुत्वमनुमाय ततो बिभेति । न च बालकेनास्मिञ्जन्मनि स्खलनस्यान्यत्र दुःखहेतुत्वमवगतम् । न च तादृशं दुःखमुपलब्धम् । तस्मात्प्राग्भवीयोऽनुभवः परिशिष्यते । तच्चैतदेवं प्रयोगमारोहति---जातमात्रस्य बालस्य स्मृतिः पूर्वानुभवनिबन्धना स्मृतित्वादस्मदादिस्मतिवदिति । न च पद्मसंकोचविकासावपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरमपेक्षते, वह्नेरौष्ण्यं प्रत्यपि कारणान्तरापेक्षाप्रसङ्गात् । तस्मादागन्तुकमरुणकरसंपर्कमात्रमेव कमलिनीविकासकारणम् । संकोचकारणं च संस्कारः स्थितिस्थापक इति । एवं स्मिताद्यनुमितहर्षादयोऽपि प्राचि भवे हेतवो वेदतव्याः । तदास्तां तावत्प्रकृतमुपसंहरति-तस्मादिति । निमित्तं लधविपाककालं कर्म । प्रतिलम्भोऽभिव्यक्तिः ।

 प्रसङ्गतश्चित्तपरिमाणविप्रतिपत्तिं निराचिकीर्षुर्विप्रतिपत्तिमाह-वटप्रासादेति । देहप्रदेशवर्तिकार्यदर्शनादेहाद्वहिः सद्भावे चित्तस्य न प्रमाणमस्ति । न चैतदणुपरिमाणं दीर्घशष्कुलीभक्षणादावपर्यायेण ज्ञानपञ्चकानुत्पादप्रसङ्गात् । न चाननुभूयमानक्रमकल्पनायां प्रमाणमस्ति । न चैकमणु मनो नानादेशैरिन्द्रियैरपर्यायेण संबन्धुमर्हति । तत्पारिशेष्यात्कायपरिमाणं चित्तं घटप्रासादवर्तिप्रदीपवत् । संकोचविकाशौ पुत्तिकाहस्तिदेहयोरस्योत्पत्स्यते । शरीरपरिमाणमेवाऽऽकारः परिमाणं यस्येत्यपरे प्रतिपन्नाः । नन्वेवं कथमस्य क्षेत्रबीजसंयोगः । न खल्वेतदनाश्रयं मृतशरीरान्मातपितृदेहवर्तिनी लोहित्तरेतसी प्राप्नोति परतन्त्रत्वात् । न हि स्थाण्वादिष्यगच्छासु तच्छाया गच्छति । न चामच्छति प्रटे तदाश्रयं चित्रं गच्छति । तथा च न संसारः स्यादित्यत' आह-- तथा चान्तराभावः संसारश्च युक्त इति । तथा च शरीरपरिमाणत्वे देहा-


 १ क. तो यतो बि । २ क. °स्य तस्य प्र । ३ क. "स्मात्तज्जा । ४ ज. मुद पादितस्मातस्मर। ५ख. ज. परिणापवि। क. झ. °व:। अत एव सं ।