पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
[साध०पा०२पू०२३-२६)
२३
पातञ्जलयोगसूत्राणि ।


सकलभोक्तसाधारणत्वाने कदाचिदपि विनाशः । एकस्य मुक्तौ वा न सर्वमुक्तिप्रसङ्ग इत्युक्तं भवति ॥ २२ ॥[१]  दृश्यद्रष्टारौ च्यस्वयाय संयोग व्याख्यातुमाह-

 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥[२] कार्यद्वारेणास्ब लक्षणं करोति, स्वशक्तिदृश्यस्य स्वभावः, स्वामिशक्तिद्रष्टुः स्वरूपं, तयोर्द्वयोरपि संवेद्यसंवेदकत्वेन व्यवस्थितयोर्या स्वरूपोपलब्धिस्तस्याः कारणं यः स संयोगः । स च सहजभोग्यभोक्तभावस्वरूपान्नान्यः । न हि तयोनित्ययोर्व्यापकयोश्च स्वरूपादतिरिक्तः कश्चित्संयोगः । यदेव भोग्यस्य भोग्यत्वं भोक्तुश्च भोक्तत्वमनादिसिद्ध स एव संयोगः ॥ २३ ॥[३] तस्यापि कारणमाह-

 तस्य हेतुरविद्या ॥ २४ ॥[४]
या पूर्व विासात्मिका मोहरूपाऽविद्या व्याख्याता सा तस्य विवेकाख्यातिरू.
पस्य संयोगस्य कारणम् ॥ २४ ॥[५]
हेयं हानक्रियाकर्मोच्यते । किं पुनस्तद्धानमित्यत आह--- १
तदर्भावे संयोगाभावो हाने
तद्द्दशेः कैवल्यम् ॥२५॥[६]
तस्या अविद्यायाः स्वरूपविरुद्धेन सम्यग्ज्ञानेनोन्मूलिताया योऽयमभावस्तस्मिन्सति
तत्कार्यस्य संयोगस्याप्यभावस्तद्धानमित्युच्यते । अयमर्थ:---तस्य मूर्तद्रव्यवत्परित्यागो
युज्यते किंतु जातायां विवेकल्यातावविवेकनिमित्तः संयोगः स्वयमेव निवर्तत इति
तस्य हानम् । यदेव च संयोगस्य हानं तदेव नियं केवलस्थापि पुरुषस्य कैवल्यं व्यप-
दिश्यते ॥ २५॥
तदेवं संयोगस्य स्वरूपं कारणं कार्य चाभिहितम् । अथ हानोपायकथनद्वारेणोपा.
देयकारणमाह---
विवेकख्यातिरविप्लवा हानोपायः ॥ २६॥[७]
अन्ये गुणा अन्यः पुरुष इत्येवंविधस्य विवेकस्य या ख्याति: प्रख्या साऽस्य
हानस्य. दृश्यपरित्यागस्योपायः कारणम् । कीदृशी, अविप्लवा न विद्यते विप्लत्रो
विच्छेदोऽन्तराऽन्तरा व्युत्थानरूपो यस्याः साऽविप्लवा । इदमत्र तात्पर्यम्-प्रतिपक्ष-
१ ग. °न कृतार्थता नापि । २ क. °हजो भो । ३ क. म.. 'मित्याह । ४ ख. ग.
भावात्सयो । ५ क. 'तस्थामर्नवस्नुनो विभागो। ६ रु. व दृश्यसं ७ क, यदुःखप ।

  1. १ ग. °न कृतार्थता नापि
  2. २ क. °हजो भो
  3. ३ क. म.. 'मित्याह
  4. ४ ख. ग.
    भावात्सयो
  5. ५ क. 'तस्थामर्नवस्नुनो विभागो
  6. ६ रु. व दृश्यसं ७ क, यदुःखप
  7. ६ रु. व दृश्यसं ७ क, यदुःखप