जातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिका- रवशाच्चित्तमिति ॥ १९॥
उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः संप्रसादः ।
स्येन सारूप्यं, साधिकारसंस्कारशेषता च वैरूप्यम् | संस्कारमात्रोपभोगेनति क्वचिरपाठः ।
तस्यार्थः --संस्कारमात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्तावधयः स्वसं-
स्कारविपाकं तथाजातीयकमतिबाहयन्त्यतिक्रामन्ति पुनरपि संसारे विशन्ति । तथा
च वायुप्रोक्तम्-
तथा प्रकृतिलयाश्वाच्यक्तमहदहंकारपञ्चतन्मात्रेष्वन्यतमदा(मा):मत्वेन प्रतिपन्नास्तदुपा- सनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमस्मॅिली ( मे ली )- नाः साधिकारेऽचरितार्थे । एवं हि चरितार्थ चेतः स्याद्यदि विवेकख्यातिमपि जनयेद- जनितसत्त्वपुरुषान्यताख्यातेस्तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति ।साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशा- चित्तमिति । प्रकृतिसाम्यमुपगतमप्यवधि प्राप्य पुनरपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्भावमुपगतो मण्डकदेहः पुनरम्भोदवारिधारावसेकान्मण्डूकदेहभावम- नुभवतीति । तथा च वायुप्रोक्तम् -
तदस्य पुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम् ॥ १९॥
योगिनां तु समाधेरुपयक्रममाह --श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । नन्विन्द्रियादिचिन्तका अपि श्रद्धावन्त एवेत्यत आह-श्रद्धा चेतसः संमसादः । स चाऽऽगमानुमानाचार्योपदेशसमधिगततत्त्वविषयो भवति हे चेतसः संप्रसा-
१ क. ज. स. 'कृतौ ली।