पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २५]
२९
ञ्जलयोगपातसूत्राणि ।


          स ईश्वर इति । न च तत्समानमैश्वर्यमस्ति । कस्मात्, द्वयोस्तु-
ल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वि-
त्येकस्य सिद्धावितरस्य प्राकाम्यविधातादूनत्वं प्रसक्तम् । द्वयोश्च
• तुल्ययोर्युगपत्कामितार्थप्राप्तिास्ति । अर्थस्य विरुद्धत्वात् ।
तस्माद्यस्य साम्यातिशयविनिर्मुक्तमैश्वर्यं स एवेश्वरः । स च
पुरुषविशेष इति ।। २४ ॥
किं च --

तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५॥

यदिदमतीलानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं
बहिति सर्वज्ञवीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः ।
अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति ।

साम्यविनिर्मुक्तिमाह-न च तत्समानमिति । प्राकाम्यमविहतेच्छता तद्विघाताननत्वम-
ननत्वे वा द्वयोरपि प्राकाम्यविधातः कार्यानुत्पत्तरुत्पत्तौ वा विरुद्धधर्मसमालिङ्गितमेकदा
कार्यमुपलभ्येतेत्याशयवालाह-द्वयोश्चेति । अविरुद्धाभिप्रायत्वे वा प्रत्येकमीश्वरत्वे कृत-
मन्यैरेकेनैवेशनायाः कृतत्वात् । संभूयकारित्वे वा न कश्चिदीश्वरः परिषदन्नित्येशनायो-
गिनां च पर्यायायोगात्कल्पनागौरवप्रसङ्गाचेति द्रष्टव्यम् । तस्मात्सर्वमवदातम् ॥ २४ ॥

एवमस्य क्रियाज्ञानशक्तौ शास्त्रं प्रमाणमभिधाय ज्ञानशक्तावनुमानं प्रमाणयति-
किंच-तत्र निरतिशयं सर्वज्ञबीजम् । व्याचष्टे—यदिदमिति । बुद्धिसत्त्वावरकत-
मोपगमतारतम्येन यदिदमतीतानागतप्रत्युत्पन्नानां प्रत्येकं च समुच्चयेन च वर्तमानानामती-
न्द्रियाणां ग्रहणं, तस्य विशेषणमल्यं बहिति सर्वज्ञबीजं कारणम् । कश्चित्किंचिदेवाती-
तादि गहाति कश्चिद्वहु कश्चिद्बहुतरं कश्चिद्बहुतममिति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं
कृतम् । एतद्विवर्धमानं यत्र निष्क्रान्तमतिशयात्स सर्वज्ञ इति । तदनेन प्रमेयमात्रं कथि-
तम् । अत्र प्रमाणयति-अस्ति काष्ठामाप्तिः सर्वज्ञवीजस्येति । साध्यनिर्देशः ।
निरतिशयत्वं काष्ठा । यतः परमतिशयबत्ता नास्तीति । तेन नावधिमात्रेग सिद्धसाधनम् ।
सातिशयत्वादिति हेतुः । यद्यत्सातिशयं तत्तत्सर्व निरतिशयं, यथा कुबलामलकबिल्वेषु
सातिशयं महत्वमात्मनि निरतिशयमिति व्याप्तिं दर्शयति-परिमाणवत । न च गरिमा-
दिभिर्गुणैर्व्यभिचार इति सांप्रतम् । न स्वल्यवयवगरिमातिशयी गरिमाऽवयविनः किं

१ ख. ग. प. उ. 'श्वरः । न । २ च. °स्ति । इ । ३ ग, ति तत्सर्व ।