एतत् पृष्ठम् परिष्कृतम् अस्ति
३८. वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [१ समाधिपादे-
यदहमद्राक्षं तत्स्पृशामि यच्चास्माक्षं तत्पश्यामीत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः । एकम- त्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमकं प्रत्ययिनमाश्रयेत् । स्वानुभवग्रा- ह्यश्वायमभेदात्माऽहमिति प्रत्ययः । न च प्रत्यक्षस्य माहात्म्य प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षवलेनैव ब्यक- हारं लभते । तस्मादेकमनेकार्थमवस्थितं च चित्तम् ॥ ३२॥ यस्य 'चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथम्- भैत्रीकरुणामुदितोपेक्षाणां सुख- दुःखपुण्यापुण्यविषयाणा भाव- नातश्चित्तप्रसादनम् ॥ ३३॥ तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्री भावयेत् । दुःखि- तेषु करुणाम् । पुण्यात्मकेषु मुदिताम् । अपुण्यशीलेषूपेक्षाम् ।
मनुभवानामनुभवस्मृतीनां च नानात्वेऽपि तदाश्रयमभिन्नं चित्तमहमिति प्रत्ययः प्रतिसंद-
धानः कथमत्यन्तभिन्नान्प्रत्ययानालम्बेत । ननु ग्रहणस्मरणरूपकारणभेदात्पारोक्ष्यापारो- क्ष्यरूपविरुद्धधर्मसंसर्गाद्वा न प्रत्यभिज्ञान नामकः प्रत्ययो यतः प्रत्ययिनश्चित्तस्यैकता स्यादित्यत आह--स्वानुभवेति । ननु कारणभेदविरुद्धधर्मसंसर्गावेवात्र बाधकावुक्तावि. त्यत आह--न च प्रत्यक्षस्यति । प्रत्यक्षानुसारत एव सामग्र्यभेदः पारोक्ष्यापारोश्यध- विरोधश्चोपपादितो न्यायकणिकायाम् । अक्षणिकस्य चार्थक्रिया न्यायकणिकाब्रह्मत- त्वसमीक्षाभ्यामुपपादितेति सर्वमयदःतम् ॥ ३२ ॥ अपरिमितमनसोऽसूयादिमतः समाधितदुपायसंपत्त्यनुत्पादाच्चित्तप्रसादनौपायान. सुयादिविरोधिनः प्रतिपादयितुमुपक्रमते--यस्य चित्तस्यावस्थितस्येदमिति । मैत्रीकरुणेत्यादिप्रसादनान्तम् । सुखितेषु मैत्री सौहार्द भावयत ईर्ष्याकालुष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणामात्मनीव परस्मिन्दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षक लुष्यं चेतसो निवर्तते । पुण्यशीलेषु प्राणिषु मुदितां हर्ष भावय. तोऽसूयाकालुष्यं चेतसो निवर्तते । अपुण्यशीलेषु चौपेक्षा माध्यस्थ्यं भावयतोऽमर्ष- १ क. स्व. छ. क्याम्पह° । २ क. ख. च. "त्ययिवि । ३ क. ख. 'मानं सा । ४ ख. यदिदं । प. ड. च. छ. १स्थे । ५ ख. छ. "ते । कथ।