पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
[२ साधनपादै-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । तत्र तीसंवेगेन मन्त्रत-
पःसमाधिभिनिवर्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा
यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति । तथा
तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभा-
वेपु वा तपस्विषु कृतः पुनः पुनरपकारः स चापि पापकर्मा-
शया सद्य एवं परिपच्यते । यथा नन्दीश्वरः कुमारो मनप्यप-
रिणामंहित्वा देवत्वन परिणतः। तथा नहुषोऽपि देवानामिन्द्रः
स्वकं परिणाम हित्वा तिर्यक्त्वेन परिणत इति । तत्र नारकाणां
नास्ति दृष्टजन्मवेदनीयः कर्माशयः । क्षीणलेशानामपि नास्त्य-
दृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥

   सति मूले तद्विपाको
   जात्यायु गाः ॥ १३ ॥

 सत्सु क्लेशेषु काशयो विपाकारम्भी भवति नोच्छिन्नकेश-


एव भूतानाम् । तस्य द्वैविध्यमाह-स दृष्टजन्मति। दृष्टजन्मवेदनीयमाह-तीसंवेगेनेति।
यथासंख्यं दृष्टान्तावाह-यथा नन्दीश्वर इति । तत्र नारकाणामिति । येन कर्माशयेन
कुम्भीपाकादयो नरकभेदाः प्राप्यन्ते तत्का.रणोर नाकास्तेषां नास्ति दृष्टजन्मवेदनीयः
कर्माशयः । न हि मनुष्यशरीरेण तत्परिणामभेदेन वो सा तादृशी वत्सरसहस्त्रादिनिस्त-
रोपभोग्या वेदना संभवतीति । शेपं सुगमम् ॥ १२ ॥

 स्थादेतदविद्यामलत्वे कर्माशयस्य विद्योत्पादे सत्यविद्याविनाशामा नाम कर्मावण्यान्तरं
चैषीत् । प्राचां तु कर्माशयानामनादिभवपरम्परासंचितानामसंख्यातानामनियतविपाकका-
लानां भोगेन क्षपयितुमशक्यत्वादशक्योच्छेदः संसारः स्पादित्यत आह-सति मूले
तद्विपाको जात्यायुर्भोगाः । एतदुक्तं भवति-सुखदुःखफलो हि कर्माशयस्तादयन
तन्नान्तरीयकतया जन्मायुषी अपि प्रसते । सुखदुःखे च रागद्वेषानुपक्के तदविनिर्भागव
तिनी तदभावे न भवतः । नचास्ति संभवो न च तत्र यस्तुष्यति बोद्विजते वा तेच तस्य
सुखं वा दःखं वेति । तदियमात्मभूमिः केशसलिलावसिक्ता कर्मफलप्रसवक्षेत्रमित्यस्ति क्लेशानां
फलोपजननेऽपि कर्माशयसहकारितति केशर्समुच्छेदे सहकारिकल्यात्सन्नप्यनन्तोऽप्यनियत- विपाककालोऽपि प्रसंख्यानदग्धबीजभायो न फलाय कल्पत इति । उक्तमर्थ भाष्यमेव दोत[१]

  1. १ क. वासना ता'1२ ज. स. पाकनक । ३ क.अ.नच । १ ख. स. 'सह ।