पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९

एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २]
पातञ्जलयोगसूत्राणि।


 प्रियं भवति । तदेव तमसाऽनुविद्धमधर्माज्ञानावैराग्यानैश्वर्यो- पगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानयनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति ।  तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यता- ख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत्परं प्रसंख्या-


स्तमसी यदा मिथः समे च भवतस्तदैश्वयं च विषयाश्च शब्दादयस्तान्येव प्रियाणि यस्य तत्तथोक्तम् । सत्त्वप्राधान्यात्खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्वस्य तमसा पिहितत्वादणिमादिकमैश्वर्थमेव तत्त्वमभिमन्यमानं तत्प्रणिधित्सति प्रणिधत्ते च क्षणम् । अथ रजसा क्षिप्यमाणं तत्राप्यलब्धस्थिति तत्प्रियमात्रं भवति । शब्दा- दिषु पुनरस्य स्वरसवाही प्रेमा निरूढ एव । तदनेन विक्षिप्तं चित्तमुक्तम् । क्षिप्तं चित्तं दर्शयन्मूढमपि सूचयति-तदेव तमसेति । यदा हि तमो रजो विजित्य प्रसृतं तदा चित्तसत्त्वावरकतमःसमुत्सारणेऽशक्तत्वाद्रजसस्तमःस्थगितं चित्तमधर्माद्युपगच्छति । अज्ञानं च विपर्ययज्ञानम् । अभावप्रत्ययालम्बनं च निद्राज्ञानमुक्तम् । ततश्च मूढावस्थाऽपि सूचितेति । अनैश्वर्य सर्वत्रेच्छापतघातः । अधर्मादिव्याप्तं चित्तं भवतीत्यर्थः । यदा तु तदेव चित्तसत्त्वमावि तसत्त्वमपगततमःपटलं सरजस्कं भवति तदा धर्मज्ञानवैराग्यैश्वर्या- प्युपगच्छतीत्याह-प्रक्षीणेत्यादि । मोहस्तमस्तदेव चाऽऽवरणं प्रकर्षण क्षीणं यस्य तत्तथोक्तम् । अत एव सर्वतो विशेषाविशेषलिङ्गमात्रालिङ्गपुरुषेषु प्रद्योतमानम् । तथाऽपि न धर्मायैश्वर्याय च कल्पते प्रवृत्त्यभावादित्यत आह----अनुविद्धं रजोमात्रया । रजसः प्रवर्तकत्वादस्ति धर्मादिप्रवृत्तिरित्यर्थः । तदनेन संप्रज्ञातसमाधिसंपन्नयोर्मधुभूमिकप्रज्ञाज्यो. तिपोर्मध्यमयोयोगिनोश्चित्तसत्वं संगृहीतम् ।  संप्रत्यतिक्रान्तभावनीयस्य ध्यायिनश्चतुर्थस्य चित्तावस्थामाह--तदेव चित्तं रजोले- शान्मलादपेतमत एव स्वरूपप्रतिष्ठम् । अभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्रत्याहृतस्यानवसिताधिकारतया च कार्य- कारिणो विवेकख्यातिः परं कार्यमवशिष्यत इत्याह-सत्त्वपुरुषान्यताख्यातिमात्र चित्तं धर्ममेघध्यानोपगं भेकति । धर्ममेघश्च वक्ष्यते । अत्रैव योगिजनप्रसिद्धिमाह --~- तदिति । सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसंख्यानमित्याचक्षते ध्यायिनः । चित्तसामानाधिकरण्यं च धर्मधामणोरभेदविवक्षया द्रष्टव्यम् । विवेकख्याते. १ क. "तिविशेषात्तत्मि। २ क. ज. झ. विरि । ३ ख. ग. "तिष्ठायां वि ।