पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २०]
८७
पातञ्जलयोगसूत्राणि ।


      परिणामक्रमनियमात् । तथा तेष्वविशेषेषु भूतेन्द्रियाणि संमृ.
ष्टानि विविच्यन्ते । तथा चोक्तं पुरस्तात् । न विशेषेभ्यः परं
तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः । तेषां
तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ ११॥
व्याख्यातं दृश्यमथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते-

दष्टा दृशिमात्रः शुद्धोऽपि
प्रत्ययानुपश्यः ॥ २० ॥

दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो
बुद्धेः प्रतिसंवेदी । स बुद्धेने सरूपो नात्यन्तं विरूप इति । न
तावत्सरूपः । कस्मात् । ज्ञाताज्ञातविषयत्वात्परिणामिनी हि

मारमन्ते किंतु क्षितिसलिलतेजःसंपत्पिरम्परयोपजायमानाङ्कुरपत्रकाण्डनालादिक्रमेण ।
एवमिहापि युक्त्यायमसिद्धः क्रम आस्थेय इति । कथं भूतेन्द्रियाण्यविशेषसंसृष्टानीत्यत
आह-तथा चोक्तं पुरस्तादिदमेव सूत्रं प्रथमं व्याचक्षाणैः । अथ विशेषाणां कस्मान्न
तत्त्वान्तरपरिणाम उक्त इत्यत आह-न विशेषेभ्य इति । तत्किमिदानीमपरिणामिन
एव विशेषास्तथा च नित्याः प्रसज्येरन्नित्यत आह -तेषां त्विति ॥ १९ ॥

व्याख्यातं दृश्यं द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते--द्रष्टा दृशिमात्रः शुद्धोऽपि
प्रत्ययानुपश्यः । व्याचष्टे---- दृशिमात्र इति । विशेषणानि धर्मास्तरपरामृष्टा । तदनेन
मात्रग्रहणस्य तात्पर्य दर्शितम् । स्यादेतत् । यदि सर्वविशेषणरहिता दृक्शक्तिर्न तर्हि
शब्दादयो दृश्येरन् । नहि दृशिनाऽसंस्पृष्टं दृश्यं भवतीत्यत आह–स पुरुष इति ।
बुद्धिदर्पणे पुरुषप्रतिबिम्बसंक्रान्तिरेव बुद्धिप्रतिसंवेदित्वं पुंसः । तथा दृशिच्छाया-
पन्नया बुद्धया संसष्टाः शब्दादयो भवन्ति दृश्या इत्यर्थः । स्यादेतत् । पारमार्थिकमेव
बुद्धिचैतन्ययोः कस्मादेवयं नोपेयते किमनया तच्छायापत्ये यत आह-स बद्धन सरूप
इति । तथाऽसरूपस्य तच्छायापत्तिरपि दुर्घटेयत आह---नात्यन्तं विरूप इति ।
तत्र सारूप्यं निषेधति-न तावदिति । हेतुं पृच्छति - कस्मात् । सहेतुकं वैरूप्ये हेतु-
माह--झातेति । परिणामिनी बुद्धिर्यस्मात्तस्माद्विरूपा । यदा खल्वियं शब्दाद्याकारा
भवति. तदा ज्ञातोऽस्याः शब्दादिलक्षणो भवति विषयस्तदनाकारत्वे त्वज्ञातस्तथा
१ ज, तत्कथन।