पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. ४८ ] पातञ्जलयोगसूत्रम् ४६ तत्र स्थूलेऽर्थे सवितर्कों निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चतुर्धोपसंख्यातः समाधिरिति ।। ४६ ।। -अन्तरात्मा निर्विचार वैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥ अशुद्धथावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्या- द मनभिभूतः स्वच्छः स्थितिप्रबाहो वैशारद्यम् । यदा निविचारस्य समाधे- वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः । तथा चोक्तम्- ८ सत्य प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान् । भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ।। ४७ ।। एकग्रिता jo t PN तक विषय. ( तुल० शान्ति० १७/२० ) (PN ऋतम्भरा तत्र प्रज्ञा ॥ ४८ ॥ तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिभर्ति | न च तत्र विपर्यासज्ञानगन्धोऽ- प्यस्तीति । तथा चोक्तम् ७० आगमेनानुमानेन ध्यानांभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ इति ।। ४८ ।। समापत्तयो ग्राह्यविषयाः सबीजतया नियम्यन्ते । सबीजता त्वनियता ग्रहीतृ- ग्रहणगोचरायामपि समापत्तौ विकल्पाविकल्पभेदेनानिषिद्धा व्यवतिष्ठते । तेन ग्राह्ये चतस्रः समापत्तयो ग्रहीतृग्रहणयोश्च चतस्र इत्यष्टौ सिद्धा भवन्तीति । नि- गदव्याख्यातं भाष्यम् ॥ ४६ ॥ चतसृष्वपि समापत्तिषु ग्राह्यविषयासु निर्विचारायाः शोभनत्वमाह - निर्वि- चारवैशारद्येऽध्यात्मप्रसादः । वैशारद्यपदार्थमाह- अशुद्धीति । रजस्तमसो- रुपचयोऽशुद्धिः सैवावरणलक्षणो मलस्तस्मादपेतस्य प्रकाशात्मनः प्रकाशस्वभा- वस्य बुद्धिसत्त्वस्य । अतएवानभिभूत इति । स्यादेतत्-ग्राह्यविषया चेत्समापत्तिः कथमात्मविषयः प्रसाद इत्यत आह - भूतार्थविषय इति । नात्मविषयः किं तु तदाधार इत्यर्थः । क्रमाननुरोधी । युगपदित्यर्थः । अत्रैव परामर्षी गाथा- मुदाहरति — तथा चेति । ज्ञानालोकप्रकर्षेणात्मानं सर्वेषामुपरि पश्यन्दुःखत्र- यपरीताञ्शोचतो जनाञ्ज | नाति ॥ ४७ ॥ अत्रैव योगिजनप्रसिद्धान्वर्थसंज्ञाकथनेन योगिसंमतिमाह - ऋतंभरा तत्र प्रज्ञा । सुगमं भाष्यम् । आगमेनेति वेदविहितं श्रवणमुक्तम् । अनुमानेनेति मन- नम् । ध्यानं चिन्ता । तत्राभ्यासः पौनःपुन्येनानुष्ठानम् । तस्मिन्नस आदरः । तदनेन निदिध्यासनमुक्तम् ॥ ४८ ॥