वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् पातञ्जलयोगसूत्रम् तत्र विभूतिपादः तृतीयः उक्तानि पश्च बहिरङगाणि साधनानि । धारणा वक्तव्या । देशबन्धश्चित्तस्य धारणा ॥ १ ॥ नाभिचक्रे, हृदय पुण्डरीके, मूर्ध्नि ज्योतिषि, नासिकाग्रे, जिह्वाग्र इत्येव- मादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ||१|| प्रथम द्वितीयपादाभ्यां समाधिस्तत्साधनं चोकम् । तृतीयपादे तत्प्रवृत्त्यनुगुणाः श्रद्धोत्पादहेतवो विभूतयो वक्तव्याः । ताश्च संयमसाध्याः । संयमश्च धारणाध्यान- समाधिसमुदाय इति विभूतिसाधनतया, पञ्चभ्यश्च योगाङ्गेभ्यो बहिरंगेभ्योऽस्याङ्ग त्रयस्यान्तरङ्गतया विशेषज्ञापनार्थमत्र त्रयस्योपन्यासः । तत्रापि च धारणाध्यान- समाधीनां कार्यकारणभावेन नियतपौर्वापर्यत्वात्तदनुरोधेनोपन्यासक्रम इति प्रथमं धारणा लक्षणीयेत्याह- उक्तानीति । देशबन्धश्चित्तस्य धारणा बन्धः संबन्धः । आध्यात्मिकदेशमाह - नाभिचक्र इति । आदिशब्देन ताल्वादयो ग्राह्माः । बाह्यदेशमाह - बाह्य इति । बाह्ये च न स्वरूपेण चित्तस्य संबन्धः संभवतीत्युक्तं वृत्तिमात्रेण ज्ञानमात्रेणेत्यर्थः । अत्रापि पुराणम्मू- प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् । वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये ॥ (तुल० विष्णु पु. ६/७/४५) शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापतिप्रभृतयः । इदं च तत्रोचम्— मूर्त भगवतो रूपं सर्वोपाश्रयनिस्सृहम् । एषा वे धारणा ज्ञेया यच्चित्तं तत्र धार्यते ||७७|| तच्च मूर्तं हरे रूपं यद्विचिन्त्यं नराधिप । तच्छूयतामनाधारा धारणा नोपपद्यते ॥७८|| प्रसन्नवदनं चारुपद्मपत्र निभेक्षणम् । सुकपोलं सुविस्तीर्णंललाटफलकोज्ज्वलम् ||७६||
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२११
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c7/%E0%A4%AA%E0%A4%BE%E0%A4%A4%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%B2-%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%A8%E0%A4%AE%E0%A5%8D_%28%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A5%88%E0%A4%B6%E0%A4%BE%E0%A4%B0%E0%A4%A6%E0%A5%80%E0%A4%B8%E0%A4%82%E0%A4%B5%E0%A4%B2%E0%A4%BF%E0%A4%A4-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A4%AE%E0%A5%87%E0%A4%A4%E0%A4%AE%E0%A5%8D%29.djvu/page211-940px-thumbnail.djvu.jpg)