पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा.सु. १०] पातञ्जलयोगसूत्रम् अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः- व्युत्थाननिरोघसंस्कारयोरभिभवप्रादुर्भावौ १०८ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ९ ॥ व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोघे न निरुद्धाः । निरोधसंस्कारा अपि चित्तधर्माः । तयोरभिभवप्रादुर्भावौ । व्युत्थानसंस्कारा हीयन्ते, निरोधसंस्कारा आधीयन्ते । निरोधक्षणं चित्तम- न्वेति । तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः । तदा संस्कारशेषं चित्तमिति निरोधसमाधौ (१९१८) व्याख्यातम् ॥ ९ ॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ परिणामत्रयसंयमाद् ( ३।१६ ) इत्यत्रोपयोक्ष्यमाणपरिणामत्रयं प्रति- पिपादयिषुर्निर्बीजप्रसङ्गेन पृच्छति-अथेति । व्युत्थानसंप्रज्ञातयोश्चित्तस्य स्फुटतर- परिणाममेदप्रचयानुभवान्न प्रश्नावतारः। निरोधे तु नानुभूयते परिणामः, न चान- नुभूयमानो नास्ति, चित्तस्य त्रिगुणतया चलत्वेन गुणानां क्षणमप्यपरिणामस्यासं- भवादित्यर्थः । प्रश्नोत्तरं सूत्रम् - व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः । असंप्रज्ञातं समाधिमपेक्ष्य संप्रज्ञातो व्युत्थानम्। निरुध्यतेऽनेनेति निरोधो ज्ञानप्रसादः परं वैराग्यम् । तयोर्व्युत्थान- निरोधसंस्कारयोरभिभवप्रादुर्भावौ । तत्र व्युत्थानसंस्कारस्याभिभवो निरोधसं- स्कारस्याविर्भावश्चित्तस्य धर्मिणो निरोधक्षणस्य निरोधावसरस्य द्वयोरवस्थ- योरन्वयः । न हि चित्तं धर्मि संप्रज्ञातावस्थायामसंप्रज्ञातावस्थायां च संस्कारा- भिभवप्रादुर्भावयोः स्वरूपेण भिवत इति । ननु यथोत्तरे क्लेशा अविद्यामूला अविद्यानिवृत्तौ निवर्तन्त इति न तन्निवृत्तौ पृथक्प्रयत्नान्तरमास्थीयते । एवं व्युत्थानप्रत्ययमूलाः संस्कारा व्युत्थाननिवृत्तावेव निवर्तन्त इति तन्निवृत्तौ न निरोधसंस्कारोऽपेक्षितव्य इत्यत आह -व्युत्थानसंस्कारा इति। न कारण- मात्रनिवृत्तिः कार्यनिवृत्तिहेतुः। मा भूत्कुविन्दनिवृत्तावपि पटस्य निवृत्तिः। अपि तु यत्कारणात्मकं यत्कार्यं तत्कारणनिवृत्तौ तत्कार्यनिवृत्तिः । उत्तरे च क्लेशा अवि- द्यात्मान इत्युक्तम्। अतस्तन्निवृत्तौ तेषां निवृत्तिरुपपन्ना । न त्वेवं प्रत्ययात्मानः संस्काराः, चिरनिरुद्धे प्रत्यये संप्रति स्मरणदर्शनात् । तस्मात्प्रत्ययनिवृत्तावपि तन्निवृत्तौ निरोधसंस्कारप्रचय एवोपासनीय इत्यर्थः । सुगममन्यत् ॥ १ ॥ सर्वथा व्युत्थानसंस्काराभिभवे तु बलवता निरोधसंस्कारेण चित्तस्य कीदृशः परिणाम इत्यत आह-तस्य प्रशान्तवाहिता संस्कारात् । व्युत्थान- संस्कारमलरहितनिरोधसंस्कारपरम्परामात्रवाहिता प्रशान्तवाहिता । कस्मात्पुनः