पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११ वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [ पा. ३ सू. १३ मिति । एवं पुनर्निरोध एवं पुनर्व्युत्थानमिति । तथावस्था परिणामः । तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति । एष धर्माणामवस्थापरिणामः। तत्र धर्मिणो धर्मैः परिणामो धर्माणां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति । एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति । (भाद्र० २।१८, १५) एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः । परमार्थतस्त्वेक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रि- र्भावो न व्यक्त्यपेक्षया । न ह्यतीतं पुनर्भवतीति । स्वरूपाभिव्यक्तिरर्थक्रिया- क्षमस्याविर्भावः । स चैवं लक्षणपरिणाम उक्तस्तजातीयेषु पौनःपुन्येन वर्तत इत्यत आइ–एवं पुनरिति । धर्मपरिणामसूचित मेवावस्थापरिणाममाह --तथेति । घर्माणां वर्तमाना- ध्वनां बलवत्त्वाबलवत्त्वे अवस्था । तस्याः प्रतिक्षणं तारतम्यं परिणामः । उप- संहरति — एष इति । परिणाममेदानां संबन्धिभेदान्निर्धारयति-तत्रानुभवा- नुसाराद्धर्मिण इति । तत्किमेष परिणामो गुणानां कादाचित्कः, नेत्याह- एवमिति । कस्मात्पुनरयं परिणामः सदातन इत्यत आह–चलं चेति । चो हेत्वर्थः । वृत्तं प्रचारः । एतदेव कुत इत्यत आह—गुणस्वाभाव्यमिति । उक्तमत्रैव पुरस्तात् । सोऽयं त्रिविधोऽपि चित्तपरिणामो भूतेन्द्रियेषु सूत्रकारेण निर्दिष्ट इत्याह--एतेनेति । एष धर्मपरिणामभेदो धर्मधर्मिणोर्भेदमालक्ष्य | तत्र मूतानां पृथिव्यादीनां धर्मिणां गवादिर्घटादिर्वा धर्मपरिणामः। धर्माणां चातीतानागतवर्तमानरूपता लक्षणपरिणामः । वर्तमानलक्षणापन्नस्य गवादेर्वा- ल्यकौमारयौवनवार्धकमवस्थापरिणामः । घटादीनामपि नवपुरातनतावस्थाप- रिणामः । एवमिन्द्रियाणामपि धर्मिणां तत्तन्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्तमानतादिलक्षणपरिणामो वर्तमानलक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वा- स्फुटत्वादिरवस्थापरिणामः । सोऽयमेवंविधो भूतेन्द्रियपरिणामो घमिणो धर्म- लक्षणावस्थानां भेदमाश्रित्य वेदितव्यः । । अभेदमाश्रित्याह--परमार्थतस्त्विति । तुशब्दो भेदपक्षाद्विशिनष्टि। पारमा- थिंकत्वमस्य ज्ञाप्यते, न त्वन्यस्य परिणामत्वं निषिध्यते । कस्मात् – धर्मि- स्वरूपमात्रो हीति । ननु यदि धर्मविक्रियैव धर्मः, कथमसंकरप्रत्ययो लोके परि- णामेष्वित्यत आह-धर्मद्वारेति । धर्मशब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते । तद्द्वा- रेण धर्मिण एव विक्रियेत्येका संकीर्णा च। तद्द्वाराणामभेदेऽपि धर्मिणः परस्पररा-