पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. २ सू. १७ ] पातञ्जलयोगसूत्रम् १२०. बस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तु- मात्रसद्भावाः- निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिञ्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ।। १५ ।। अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते- परिणाम त्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयसेकत्र संयम उक्तः (३।४) । तेन परिणामत्रयं साक्षा- क्रियमाणमती तानागतज्ञानं तेषु संपादयति ॥ १६ ॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्र- विभागसंयमात्सर्वंभूत रुतज्ञानम् ॥ १७ ॥ सन्त्येवेत्यत आह–अनुमानेन प्रापितो वस्तुमात्रेण सद्भावो येषां ते तथोक्काः । पश्चान्मानसाधर्म्यादागमोऽप्यनुमानम् । सप्तापरिदृष्टान्कारिकया संगृह्णाति- निरोघेति । निरोधो वृत्तीनामसंप्रज्ञातावस्था चित्तस्यागमतः संस्कारशेषभावी- ऽनुमानतश्च समधिगम्यते । धर्मग्रहणेन पुण्यापुण्ये उपलक्ष्यति । क्वचित्कर्मेति पाठः । तत्रापि तजनिते पुण्यापुण्ये एव गृह्येते । ते चागमतः सुखदुःखोपभो- गदर्शनाद्वानुमानतो गम्येते । संस्कारस्तु स्मृतेरनुमीयते। एवं त्रिगुणत्वाच्चित्तस्य खलं च गुणवृत्तमिति (द्र० २।१५ टीका ) प्रतिक्षणं परिणामोऽनुमीयते । एवं जीवनं प्राणधारणं प्रयत्नभेदोऽसंविदितश्चित्तस्य धर्मः श्वासप्रश्वासाभ्यामनुमीयते । एवं चेतसश्चेष्टा क्रिया यथा यथा तैस्तैरिन्द्रियैः शरीरप्रदेशैर्वा संप्रयुज्यते, सापि तत्संयोगादेवानुमीयते । एवं शक्तिरप्युद्भूतानां कार्याणां सूक्ष्मावस्था चेतसो धर्मः स्थूलकार्यानुभवादेवानुमीयत इति ॥ १५ ॥ अतः परम् आपादपरिसमाप्तेः संयमविषयस्तद्वशीकारसूचनी विभूतिश्च वक्तव्या । तत्रोक्तप्रकारं परिणामत्रयमेव तावत्प्रथममुपात्तसकलयोगाङ्गस्य योगिनः संयमविषयतयोपक्षिपति–परिणामत्रयसंयमातीतानागतज्ञानम् । ननु यत्र संयमस्तत्रैव साक्षात्करणम् । तत्कथं परिणामत्रयसंयमोऽतीतानागते साक्षात्कार- मेदित्यत आह – तेन परिणामत्रयं साक्षात्क्रियमाणं तेषु परिणामेष्वनु- गते ये अतीतानागते तद्विषयं ज्ञानं संपादयति । परिणामत्रयसाक्षात्करणमेव तदन्तर्भूतातीतानागतसाक्षात्करणात्मकमिति न विषयमेदः संयमसाक्षात्कारयो- रित्यर्थः ॥ १६ ॥ अयमपरः संयमस्य विषय उपक्षिप्यते शब्दार्थप्रत्ययानामित रेतराध्या-