पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १० ) अभ्यासवैराग्यदार्ग्यात् स्थूला विभूतयः आ आसनादिस्थैर्यतः प्रादु- र्भवन्ति, प्रधानजयादयस्तु समाधिबलाधीनाः सिद्धयः । यतो हि ब्रह्माण्डमिदं मनोमात्रम्, अत. मानसबलसम्पन्ना योगिनो लोलया लौकिकैरचिन्त्यान्यपि कर्माणि कर्तुं समर्था भवन्ति । अहिंसादिप्रतिष्ठाजाताः सिद्धयोऽप्यनेनैव मार्गेण व्याख्येयाः । श्रद्धोत्पादाय विभूतिज्ञानमावश्यकमिति कृत्वा योग- शास्त्रेऽयं विषयो विवृतः । विभूतितत्त्वज्ञानमन्तरा भगवत्तत्त्वज्ञानमपि दुःशक- मिति विज्ञेयम् । सोऽयं योगः क्रियायोग-ज्ञानयोगभेदेनापि द्विविधः । आत्मबाह्येश्वरादि- प्रणिधानपूर्वकं यत्र स्थैर्यमभ्यस्यते, स क्रियायोगः, स्वगतमहदादि-तत्त्वनिदि- ध्यासनमेव यत्र क्रियते स ज्ञानयोगः । रुचिमेदत एवायं मेदो न तत्त्वतः, यतो हि महदात्मसाक्षात्कार ईश्वरसत्ताज्ञानं च अविनाभावीति योगशास्त्ररह- स्यम् । तथैवेश्वर - प्रणिधानात् स्वयमेव चित्तं ग्राह्यग्रहणादितत्त्वसाक्षात्करणे समर्थ भवेत् । अतः साधनामार्गभेद-प्रयुक्तोऽयमतात्त्विको भेदः । सगुणेश्वरं हिरण्यगर्भं निर्गुणेश्वरमनादिक्लेशकर्माद्यव्यपदिष्टं पुरुषविशेषं च प्रति प्रणिधानं भक्तियोगपदवाच्यम्', स च भक्तियोगो योगविद्याया अस्याः प्रमुखं वैशिष्ट्यम् । ज्ञानयोगप्रतिपादककठाद्युपनिषत्सु नायं मार्ग उपदिष्टः, श्वेताश्वतरादिषु च प्रपञ्चितोऽयम् । पञ्चरात्रभागवतादिशास्त्रेषु योगोऽयमुपबृंहितः । अर्वाचीन- काले भक्तियोगोऽयं बहुधा विपर्यासं गत इति दृश्यते । साधना-प्रधानत्वाद् योगशास्त्रस्य कर्मतत्त्वं विस्तरेण विवृतमत्र-कर्माशय- कर्मसंस्कार-विपाकादयो विषया उत्सर्गापवादन्यायतो विवृता दृश्यन्ते (२ । १२- १४; ४।२-११ ) । ईश्वरप्रणिधानविचार प्रसङ्गाद् ईश्वरस्वरूपविचारोऽपि अस्य शास्त्रस्य मुख्य विषयेष्वन्यतमः । ईश्वरचित्तमीश्वरस्वभावश्चेत्यादयो विषया न्यायेनेह परीक्षिताः । शास्त्रान्तरेषु ईश्वरस्वरूपं न न्यायेन परीक्ष्यते, केवलं यथारुचि अन्धविश्वासेन स्वीक्रियते, अत एव शंकरमध्वादिकृतानि ईश्वरप्रति- पादकवैदिकवचनव्याख्यानानि न युक्त्युपपन्नानि भवन्ति । कैवल्यावस्थाविषय इदं विज्ञेयं यत् तस्यामवस्थायामन्तःकरणगतगुणानां साम्यं भवति, अत एव साऽवस्था विवेकख्यातिनिरोधपरवैराग्येषु चरितार्थेष्वेव १ – भक्तिविषयेऽस्मत्प्रणीतः 'भक्तिकौस्तुभ' नामा ग्रन्थो द्रष्टव्यः । ईश्वर- प्रणिधानकारी कथं कैवल्यमधिगच्छतीति योगभाष्ये विवृतम् (१ । २६ ) । सगुण ब्रह्मप्रणिधानवत्सु योगिषु येनोपायेन विवेकज्ञानमुत्पद्यते, स तु शान्तिपर्वणि विवृतः ( ३०१।७६-७६)।