( ८० ) आ. २।३।४), अभिभ्यायन् (तै. आ. २।२), वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवुः (तै. आ. २१७ ), अजान् ह वै पृथ्वींस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत् (तै. आ. २११ ) इत्येतादृशानि स्थलान्यवलोकनीयानि । योगप्रतिपादिता अन्ये विषया अपि आरण्यकेषु दृश्यन्ते यथाऽरिष्टवर्णनम् (ऐ. आ. ३।२।४) । अधिदैवाध्यात्मैक्यदृष्टिरपि योगशास्त्रीया (ऐ. आ. २।११२, ३(२ | २ ) | निरुक्तेऽपि दृष्टिरियं बहुधोपवर्णिता । मनःप्राणादिविषयका ब्राह्मणग्रन्थसन्दर्भाश्च योगदृष्टयनुसारिण इति विज्ञेयम् । ‘अपरिमिततरमिव हि मनः परिमिततरेव हि वाक' इति शातपथश्रुतिः (१।४ ४।७ ) योगविद्ययैव विशदीकरणीया । तथैव 'मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठिताः' (शत० १४|३|२|३) 'मनो हृदये श्रितम्' ( तै. ब्रा. ३|१०|८|६ ) इत्यादिवचांस्यपि योगविद्यामूलकानि । प्रजापतिकृततपश्चरणादि- विषयाः अपि योगीया एव । पञ्चविंश आत्मा भवति ( तै. ब्रा. ११२१६ ) इत्यादीनि तत्त्वप्रतिपादकवचांस्यपि सांख्यदृशैव व्याख्येयानि । उपनिषत्सु प्राचीनासु सांख्ययोगीया दृष्टिरतिस्पष्टरूपेणोपलभ्यते । आधु- निकोपनिषत्सु अर्वाचीना योगदृष्टिः, नवीनवेदान्तदृष्टिः, हठयोगादिदृष्टयश्च यथायथं दृश्यन्ते । काश्चिच्चोपनिषदः संप्रदायान्धदृष्टिभिरेव प्रणीता इति विज्ञेयम् । पूर्वे सांख्ययोगाचार्याः– परमर्षे: कपिलादनन्तरं योगभाष्यप्रणयनात् प्रागू ये आचार्या बभूवुः, तेषां कृत्स्नशो नामानि न ज्ञायन्ते, न वा ज्ञातुं शक्यन्ते । महाभारते' सांख्यकारिकाटीकायामन्यत्र 3 च केचन प्रसिद्धाः सांख्ययोगाचार्याः स्मर्यन्ते । स्मृतानामाचार्याणामपि न वचनादीनि सर्वाणि, ग्रन्थाचोपलभ्यन्ते । इतिहासपुराणेषु पञ्चशिखादीनां यानि प्रवचनान्युपलभ्यन्ते न तानि तत्तदाचार्य प्रोक्तानि, प्रत्युत तत्तदाचार्य मतानुसारेण इतिहासपुराणा- प्रवक्तृभिः श्लोका विरचिता इत्येवाभ्युपेयम् । अत एव इतिहासपुराणाद्युपदिष्टानि आचार्यमतानि परीक्ष्यैव ग्राह्माणि । तदिदं भागवतविचारप्रसंगे प्रागू १. शान्तिपर्व ३१८५६-६२ २. कारिका (६६-७०-७१ ) टोका:- गौडपादभाष्य-माठरवृत्ति जयमङ्गलाः, बुद्धचरितम् ( १२ अ० ) । ३. सांख्यसूत्रे ( ६।६६ ) सनन्दननामास्ति । तथैव योगभाष्येऽपि जैगीष- व्यादीनां नामानि दृश्यन्ते । शारीरकभाष्ये च देवलनाम स्मृतम् ( १९४१२८)। भागवतीया सिद्धेशसूची ( ६।१५।१२-१५ ) ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c7/%E0%A4%AA%E0%A4%BE%E0%A4%A4%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%B2-%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%A8%E0%A4%AE%E0%A5%8D_%28%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A5%88%E0%A4%B6%E0%A4%BE%E0%A4%B0%E0%A4%A6%E0%A5%80%E0%A4%B8%E0%A4%82%E0%A4%B5%E0%A4%B2%E0%A4%BF%E0%A4%A4-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A4%AE%E0%A5%87%E0%A4%A4%E0%A4%AE%E0%A5%8D%29.djvu/page93-940px-thumbnail.djvu.jpg)