पारस्करगृह्यसूत्रे- 3- 2 शनान्ते सर्वानमान्सर्वमन्नमेकत उद्धृत्याथैनं प्राशयेत् तूष्णीयहन्तेति वा । "हन्तकारं मनुष्याः” इति श्रुतः । भारद्वाज्या मासेन वाक्प्रमारिकामस्य, कपिञ्जलमा- सेनान्नाद्यकामस्य, मत्स्यैर्जवनकामस्य, कृकषाया आयुःकामस्य, आट्या ब्रह्मवर्चसकामस्य, सर्वैः सर्व- कामस्य अन्नपर्याप वा ततो ब्राह्मणभोजनमनपर्याय वा ततो ब्राह्मणभोजनम् ॥ २४ ॥ इति गृह्यसूत्रे प्रथमकाण्डं समाप्तम् ॥ १ ॥ सांवत्सरिकस्य चूडाकरणम् ॥ तृतीये वा प्रतिहते षोडशवर्षस्य केशान्तः । यथामङ्गलं वा सर्वेषाम् । ब्राह्म- णान्भोजयित्वा माता कुमारमादायाप्लाव्याहते वाससी परिधाप्याङ्क आधाय पश्चादग्नेरुपविशति । अन्त्रारब्ध आज्याहुती त्वा प्राशनान्ते शीतास्वप्सूष्ण आसिञ्चति "उष्णेन वा य उदकेनेह्यदिते केशान्वप' इति "केश- श्मश्रु' इति च केशान्ते । अथात्र नवनीतपिण्डं घृतपिण्डं दनो वा प्रास्यति । तत आदाय दक्षिणं गोदानमुन्दति. 'सविना प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चसे इति । त्रेण्या शलल्या विनीय त्रीणि कुशत- रुणान्यन्तर्दधाति ओषध" इति । शिवो नामेति लोहक्षुर-
पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति