वेदूषकः-(क) इणादो अत्तभवं ।
योगन्धरायणः -कृतं देवकार्यम् ।
विदूषकः-(ख) आम भो ! पणाममत्तेण पूइदा देवदा ।
यौगन्धरायणः - एतामपि बहुमतामवस्थां प्राप्तः स्वामी । कुतः ,
स्त्रतस्य यस्य समुपस्थितदैवतस्य पुण्याहघेषविरमे पटहा नदन्ति । |
रुमण्वान् - भवत इदानीं प्रयत्न उचितं तिथिसत्कारमानेष्यति स्वामिनः ।
यौगन्धरायणः-वसन्तक ! गच्छ. भूयः स्वामिनं पश्य ; विज्ञाप्य-
(क) स्नातोऽत्रभवान् ।
(ख) आम भो ! प्रणाममात्रेण पूजिता देवताः ।
हणादो इस्यादि ।
कृतमिति । देवकार्यं कृतं देवतावूजा कृता किम् ॥
आमेत्यादि । प्रणाममात्रेण नमस्कारेणैव, न तु पुष्पार्चनादिना ।
एतामिति । बहुमतां विपत्कालेऽपनुवर्त्यमानतया लोक क्ष्कलाघिताम् । एतागपि वक्ष्यमाणगुणमपि । अवस्थां देवपूजनदशां प्राप्तः ।
स्नातस्येति स्नतस्य , समुपस्थितदैनतस्य स्नानोत्तरकाले पूजितदैवतस्य । यस्य स्वामिनःपुण्याहघोषविरमे पूजाङ्गपुण्याहवाचन कर्मावसाने । पटहा वाद्यविशेषाः । नदन्ति शब्दायन्ते । तस्यैव, तिथिपूजनेषु चतुर्दश्यादितिथिविशेषनि मित्तेषु देवपूजनेषु । कालविभत्रत्व काळशक्त्या । निगलाः पादबद्धाः शृङ्खलाः । दैवप्रणाम चलिताः सन्तः स्वनन्ति ॥ ४ ॥
भवत इति । भवतः प्रयत्नः , स्वामिन , उचितं पुण्याहवाचनपटहवादनादिमङ्गलघोषानुयातं । तिथिसत्कारं तिथिनिमित्तं देवपूजनम् । इदानीम् आनेष्यति, अविलम्बं प्रतिग्रपयिष्यति । स्वामिनं बन्धनात् क्षिप्रं मोचयित्वेत्यार्थम् । इह इदानीमिति कालासन्त्नवं वदता रुमण्वता यौगन्धरायणनिर्णीतः स्वामिमोचनभ्युपायस्य प्रकारो न केवलं, किन्तु प्रयोगकालोऽप्यवगत इति गम्यते ॥
अत एव रुमण्वद्धचनादुपजातत्वरः पूर्वसन्देशप्रेषणोत्तरकालनिर्धारितं सन्दिष्ठार्थप्रयोगकालं स्वामिने निवेदयितुं वसन्तकं चोदयति-वसन्क! गच्छेत्यादि ।