पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
तृतीयोऽङ्कः

 यौगन्धरायणः -सखे ! रुमण्वन् ! स्थिरीक्रियतामात्मा । अनेनैव वेषेण जरा गन्तव्या ।

 विदूषकः-(क) भो ! अहं च एदेण उत्तो-भणेहि जोअन्धराअणस्स जहसमास्थिदा समथणा ण रोअदे मे । समाणे गमणे पज्जोदस्स अवमाणविसेसो चिन्तीअदि । मा कामप्पधाण त्ति मं अवमण्णेहि । अवमाणस्स अवाजिदिं अण्णेसामि त्ति ।

 यौगन्धरायणः-अहो शत्रुजनापहास्यमभिधानम् । अहो निरपत्रपता खलु बुद्धेः । अहो सुहृज्जनसन्तापकारणम्। अदेशकाले ललितं कामयते स्वामी । कुतः ,


 (क) भोः ! अहं चैतेनोक्तः-- भण यौगन्धरायणाय यथासमर्थिता समर्थना न रोचते मे । समाने गमने प्रद्योतस्यावमानविशेषश्चिन्स्यते । मा कामप्रधान इति मामवमन्यस्व । अवमानस्यापचितिमन्वेषे इति।


बन्धनमेकोऽनर्थः , कौशम्बीप्रयाणादिबहुकार्यविघटकं शत्रुपुत्रीकामुकत्वमपरोऽनर्थ इत्यनर्थसङ्घचारित्वमिह बोद्धव्यम् ॥

 सखे इत्यादि । अनेनैव वेषेण जरा गन्तव्य प्राप्तुं योग्या; न त्वेनं वेषं परित्यज्य स्त्ररूपणे । वेषो। ह्ययं स्वामिनं कौशाम्बी मनीत्वा न त्यक्तव्यः, स्वामी च वासवदत्तायामासक्त उज्जयिनीं न हास्यतीत्यभिप्रायः ॥

 भो इत्यादि । एतेन स्वमिना । यथासमर्थिता समर्थना त्वत्समर्थितप्रकारा कार्यसंप्रधारणा । मे मह्यं । न रोचते, नाहं बन्धनान्निष्क्रम्यैककः कौशाम्बीं गन्तुमिच्छामीत्यर्थः। किं तर्हि कर्तव्यमिच्छसीत्याकाङ्कयामाह--गमने मत्प्रयाणे । समाने त्वत्पक्षमत्पक्षयोस्तुल्ये सति । प्रद्योतस्य, अवमानविशेषः तत्कन्यापहरणरूपः । चिन्यते कार्यत्वेन मया विचार्यते । एवञ्च प्रद्योतकन्यया सहैव केशाभ्बीप्रयाणं ममेष्टमित्यभिप्राय: । एतच्च न कामपरतयेत्याह-मां, कामप्रधान इति कामवश्य इति मत्वा । मावमन्यस्व । कथं तर्हि मन्तव्योऽसीत्यपेक्षायामाह---अवमानस्य प्रद्योतप्रयुक्तस्य मद्वन्धनपरिभवस्य अपचितिं निष्क्रयम् । अन्वेषे तत्कन्यापहरणद्वारेणान्विच्छामि । इति मन्यस्वेति शेषः ॥

 अहो इत्यादि । स्वामी, अदेशकाले अदेशे अकाले च । ललितं कामविलासं कामयते ।