गात्रसेवकः-- (क) इदो आहिण्डामि, एत्थ पिबामि, एदेण पिबामि, मा संरम्भेण । किं करीअदु ।
भट-(ख) हिज्जउ असम्बन्धप्पळावो । सिग्धं भद्दवदिं पवेसेहि ।
गात्रसेवकः--(ग) पविसदु पविसदु भद्दवदी । अघो मए भइवदीए अङ्कुमं आढत्तं ।
भटः-(घ) सभावविणीदाए भद्द वदीए अड् क्रुसेण किं कय्यं । गच्छ, सिग्धं भद्दवदिं पवेसेहेि ।
गात्रसेवक:-(ङ) पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए खुरप्पमाळा आढत्ता ।
(क) इत आहिण्डे, अत्र पिबामि, एतेन पिबभि, मा संरम्भेण । किं क्रियताम् ।
(ख) भवत्वसम्बन्धप्रलापः। शीघ्रं भद्रवतीं प्रवेशय ।
(ग) प्रविशतु प्रविशतु भद्रवती। अङ्घो मया भद्रवत्या अङ्कुशमहितम् ।
(घ) स्वभावाविनीताया भद्रवत्या अङ्कुशेन किं कार्यम् । गच्छ, शीघ्रं भद्रवतीं प्रवेशय ।
(ङ) प्रविशतु प्रविशतु भद्रवती । अङ्घो मया भद्रवत्याः क्षुरप्रमालाहिता ।
सावज्ञमाह--इदो इत्यादि । मा रम्भेण कोपेन साध्यं नास्तीत्यर्थः ॥
हिज्जउ इत्यादि । प्रवेशय अथोद् वासवदत्तागृहे ॥
पविसदु इत्यादि । प्रविशतु स्वयमेव प्रवेशं करोतु, न तु तामहं प्रवेशयानीत्यर्थः । तत्र कारणमाह --अघो इत्यादि । अंध इति भयध्वानः । आहितम् आधीकृतं । निःस्वेन मया मद्यमूल्यार्थेऽङ्कशमधित्वेन यौण्डिकीहस्तेऽर्पितम्, अतोऽकुशहीनां भद्रवतीं कथमहं प्रवेशयेयमित्यभिप्रायः ॥
अङ्कुशाभावेऽपेि प्रवेशनमदुष्टमित्याह-सभावेत्यादि ॥
पविसदु इत्यादि । क्षूरप्रमाला अर्धचन्द्रमाला ॥