पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 भटः--(क) हं सद्दो विअ ।

 गात्रसेवकः-(ख) अंधो जाणामि जाणामि, काण्डिळपुण्डिकिर्णाए गेहं भिन्दिअ भद्दवदी पळाअदि ।

 भटः--(ग) किं भणासि-(आकाशे) एसो भट्टा वच्छराओ वासवदत्तं गणिअ णिग्गदो त्ति ।

 गात्रसेवकः -(सहर्षम्) अविघ्नमस्तु स्वामिनः।

 भटः-(घ) पिब पिब । अज्ज वि तुमं मत्तो आहिण्डेहि ।

 गात्रसेवकः--आः को मत्तः , कस्य वा मदः, वयं खल्वार्थयौगन्धरायणेन स्वेषु स्वेषु स्थानेषु स्थापिताश्वारपुरुषाः। यावदहमपि सुहृजनस्य संज्ञां करोमि । एते ते सुहृदो निरोधमुक्ता इव कृष्णसर्पा इतस्ततो निर्धावन्ति । भो भोः सुहृदः!श्रुण्वन्तु शृण्वन्तु भवन्तः--


 (क) हं शब्द इव ।

 (ख) अङ्घो जानामि जानामि, कण्डिलशौण्डिक्या गेहं भित्तवा भद्रवती पलायते

 (ग) किं भणसि –एष भर्ता वत्सराजो वासवदत्तां गृहीत्वा निर्गत इति ।

 (ध) पिब पिब । अद्यापि त्वं मत्त अदित्डस्ब


 भटगात्रसेवकयोरित्थं संवादे वर्तमाने सर्वतः प्रसृतं सवासवदत्तवत्सराजरात्रिनिष्क्रमणवार्ताकलकलं श्रुत्वाह-हमित्यादि ॥

 अंध इत्यादि । पलायते परिधावति । तन्निमित्तोऽयं पौरकलकलशब्द इत्यभिप्रायः । शब्दस्य सवासवदतवत्सराजनिर्गमनिमित्तकत्वं जानतोऽप्येवमुक्तिर्वस्तुतत्त्वगोपनाभिनिवेशादिति बोद्धव्यम् ॥

 किं भणासीत्यादि । इह वाक्यान्ते ‘गच्छदु भावो’ इति काचिदधिकं पठ्यते ॥

 स्वामिकार्यसिद्धिसन्तुष्टः स्वरूपं विवरीतुमिच्छन् मध्यमपात्रतोचितं संस्कृतमाक्ष्रित्याह--अविघ्नमिति । स्वामिन: अविघ्नम् अस्तु विध्नाभावो भवतु । अर्थाभावेऽव्ययीभावः । अथवा कार्यस्य गम्यत्वात् कार्यं विध्नरहितं भवात्वित्यर्थः॥

 पिबेत्यादि ॥

 स्वरूपं मुक्तकण्ठं निवेदयति- आ इत्यादि । श्रुण्वन्तु अर्थाद् वक्ष्यमाणमुपदेशम् ।