हंसकः-(क) तदो भट्टिणा पुढमं कुन्तप्पहारजणिदमोहो साळङ्काअणो णाम पज्जोदस्स अमच्चो माखु माखु साहसं त्ति भणिअ तं देसं उवद्विदे ।
यौगन्धरायणः-ततस्ततः ।
हंसकः--(ख) तदो तक्काळदुळळहं पणामं करिअ सरीरअन्तणादो तेण मौइदो भट्टा।
यौगन्धरायणः -विमुक्तः स्वामी । साधु भोः शलङ्कायन ! साधु । अवस्था खलु नाम शत्रुमपि सुहृत्त्वे कल्पयति । हंसक ! व्यसनात् किञ्चदुच्छंसितमिव मे मनः । अथ किं प्रतिपन्नं तेन साधुना ।
हंसकः-(ग) तदो तेण अय्येण अणेअं सेवआरं सन्तिवअणं भणिअ
(क) ततो भर्त्रा प्रथमं कुन्तप्रहारजनितमोहः शालङ्कायनो नाम प्रद्योतस्यामात्यो माखळ माखलु साहसमि’ति भणित्वा तं देशमुपस्थितः ।
(ख) ततस्तत्काळदुर्लभं प्रणामं कृत्वा शरीरयन्त्रणात् तेन मोचितो भर्ता।
(ग) ततस्तेनार्येणानेकं सोपचारं शान्तिवचनं भणित्वा गाढबहुप्रहार-
तदो इत्यादि । प्रथम कुन्तप्रहारजनितमोहः , पूर्वे प्रासताडनेत्पादितमूर्छ: । अर्थादिदानीं प्रस्यापन्नसंज्ञ इति गम्यते । माखलु माखलु, कुरुतेत्यध्याहारः । साहसं क्त्रूरकर्म । तं देशं यत्र बद्ध्वा शायित उदयनः । उपस्थित: प्राप्तः ॥
तत इत्यादि ॥
तदो इत्यादि । तत्कालदुर्लभं तत्काले तथाविधपरिभवानुभवावसरे दुर्लभम् । शरीरयन्त्रणाद् देहबन्धनात् । तेन शलङ्कायनेन ॥
विमुक्त इत्यादि । साधु त्वदाचरितं क्ष्लाघनीयमित्यर्थः । अतिशोच्या स्वामिनस्तदानीन्तनी दशा वैरिणमपि शलङ्कायनं कृपोपजननेन बन्धमोचनात्मकं सुहृत्कर्म कारितवतीति प्रकृते विशेषे स्थिते तद्गमकं सामान्यमाह —अवस्थेति । अवस्था दुर्दशा । शत्रुमपि, सुह्टत्त्वे कल्पयति, दुर्दशापारिहरानुकूले मित्रसाध्ये कर्मणि प्रेरयतीत्यर्थः। अथ मोचनानन्तरं । किं प्रतिपन्नं किमाचरितम् ॥
तदो तेणेति । सोपचारं तादरम् । गाढबहुप्रहारतया गाढाः दृढाः बह-