पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
तृतीयोऽङ्कः ।

पडिहस्थीकिदं भवे। निरूप्य) जदि बि एसो बलंआरी बहुकेहि रूवेहि अविणअं करेदि । भोदु पेक्खिस्सं दाव अहं । भो ! एदं खु मम मोदअमळ्ळां


शुद्धवातमेवोद्गिरामि। अथवा लोहितकात्यायन्याः सम्बन्धि मम सम्बन्धीति कृत्वा शिवेन प्रतिहस्तीकृतं भवेत् । यद्यप्येष ब्रह्मचारी बहुकै रूपैरविनयं करोति । भवतु प्रेक्षिष्ये तावदहम् । भोः ! एष खलु मम मोदकमल्लंकः


त्वात् तस्याः स्वभूतं वस्तु वत्सराजरूपम् । मम संबन्धीति कृत्वा मद्वयमनायासेन कौशाम्बीं नेतुं शक्यमिति तन्मनोवृत्तितत्त्वज्ञानान्मत्वा । मोदकं प्रियं , कर्तव्यतया सङ्केतितपूर्वे कौशम्बीप्रयाणविषयं मन्त्रणकर्मेत्यर्थः । प्रतिहस्तीकृतं भवेत् अप्रधानीकृतं भवेत् , फलस्यान्थथासुलभत्वभ्रमादू अनवक्ष्यकर्तव्यमिति विचारितं भवेत् । इह काक्वा न भवेदित्यर्थः । कल्याणबुद्धौ तस्मिन् समयलङ्घनदौर्जन्यस्यासंभाव्यवदित्यभिप्रायः । इत्याभ्यन्तरोऽर्थः । अत्र हस्तं प्रतिगतं प्रतिहस्तम् , अतत् तत् सम्पद्यमानं कृतं प्रतिहस्तीकृतामित्याद्येऽर्थे व्युत्पत्तिः ; द्वितीये तु प्रतिहस्तः प्रतिनिधिः अप्रधानम् । शेषं समानम् ।

 जदिवीति । यद्यपीति पश्चान्तरशङ्कायाम , अथवेत्यर्थः। बहुकैः रूपैः उपलक्षितः कामरूपी । एषः पुरोवर्ती ब्रह्मचारी वर्णी। अर्थात् शून्याशिवालयप्रतिष्ठितो गणाधिपः । अविनयं दुर्वृत्तं मोदकापहाररूपं । करोति कृतवान् किं प्रियमोदकत्वात् । इह काकुः खोऽयं हास्यानुगुणो बाह्योऽर्थः । बहुकैः रूपैः अनेकैः प्रकारैः । प्रतिजनशुभाशुभादेशन-प्रतिजनचिकित्सन प्रतिजनवाचालत्वादिभिरुपलक्षितः । एषः ब्रह्म तपश्वरितुं शीलमस्येति ब्रह्मचारी श्रमणकःअर्थाद् रुमण्वान् । अविनयं करोति , नञर्थकाक्वा मन्त्रभेदलक्षणमपचारं न कृतवानित्यर्थः। सर्वत्र गत्वरोऽप्ययं तीव्रव्रतनिष्ठया मन्त्रगुप्तिव्रतान् प्राणात्ययेऽपि न प्रमाद्यदित्यमिप्रायः । तदित्थं यौगन्धरायणानागमनहेतूनां बाधं समर्थितवता विदूषकेण स्वहृदये तदागमनप्रत्याश लब्धप्रतिष्ठा सूचितेति बोद्धव्यम् ।

 भोदु इति । भवतु , अहं प्रेक्षिष्ये तावत् । शिवगृहं साकल्येन परिशोधयिष्यामि , क्क वर्तते मे मोदकमल्लक इति इति बाह्योऽर्थः। शिवस्य दर्शनसेवां करिष्यामीत्याभ्यन्तरः करिष्यमाणवरप्रार्थनानुगुण: । यौगन्धरायणो यावदायति तावत् तं प्रतीक्षध्ये इति वा ।

 भो एदमिति । एष खलु मोद कमल्लकः शिवस्य पादमूले तिष्ठतीति स्पष्टो बाह्योऽर्थः । मम, मोदकमल्लकः प्रशस्तं प्रियं वासवदत्तासहितवत्सराजहर-