पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशः पटलः। ३८९ अभ्यर्च्य देवमभिसंयत्तचित्तवृत्ति- र्भूत्वा शिवो जपतु मन्बमहेशमेनम् ॥ १५ ॥ संतप्ये विप्रान्पुनरेवमेव संपूजयेदिन्दुकलावतंसम् । जपेद्यथाशक्ति शिवस्वरूपी भूत्वा ततोऽन्ते च शिवः स भूयात् ॥ ६६ ॥ अमुमेव मनुं लक्षं मन्त्री हल्लेखयाभिसंरुद्धम् । जप्त्वा नृपतरुसमिधां मधुरयुजां मनुसहस्त्रकं जुहुयात् ॥ ६७ ॥ वन्दे हरं वरदशूलकपालहस्तं साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् । सामोरुपीठगतया निजवामहस्त- न्यस्तारुणोत्परुचा परिरब्धदेहम् ।। ६८ ॥ आवृतिरङ्गैराद्या हृलेखाद्याभिरनु वृषाद्यैश्च ।