पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९३
घड्रिंशः पटलः ।

षड्विंशः पटलः । दो:संधिकण्ठस्तनह्र्न्नाभिकट्यन्धुषु क्रमात् । पत्संधिषु पुनर्द्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् ॥ एवं न्यस्तशरीरोऽथ चिन्तयेमन्त्रदेवताम् ॥ ७ ॥

मुद्रा भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरविणेत्रो दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो' भावशुद्धिं भवो वः ॥

प्राक्प्रोक्तविधानेन च सम्यक्संपूज्य साधु कलशादयैः | कृतसंदीक्षो मन्त्री जप्यादेनं मनुं समाहितधीः ॥ ९॥ द्वात्रिंशदयुतमानं जप्याश्च जुहोतु तद्दशांशमितैः । दुग्धाप्लुस्तिलैर्वा साज्येन पयोन्धसा द्वयेनापि ॥१०॥