पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तविंशः पटलः ।

सप्तज्वलज्वालिनिभिस्तटेन च हतेन च । सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत् ।। ३२ ।।

अव्यात्कपर्दकलितेन्दुकरः करात्त- शूलाक्षसूत्रककमण्डलुटङ्क ईशः । रक्ताभवर्णवसनोऽरुणपङ्कजस्थो नेत्रत्रयोल्लसितवक्त्रसरोरुहो वः ॥ ३३ ॥

कृतसंदीक्षो मन्त्री जप्याल्लक्षस्रयं च मन्त्रमिमम् । जुहुयाधिमधुरसिक्तैः सतिलैरपि तण्डुलैर्दशांशेन ॥ ३४ ॥

व्याघातसमिद्भिर्वा मनुजापी तावतीभिरथ जुहुयात् । 'पूर्वोक्तार्चापीठे गन्धाद्यैरर्चयेच्च चण्डेशम् ॥ ३५ ॥

चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम् । चण्डेश्वराय च प्रोक्त्वा धीमहीपदमुच्चरेत् ॥ ३६ ।। 1. पूर्वोक्त एव पाठे. , धीमहे.