पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । प्रोक्ता जपावसाने सघृतैरन्नैर्दशांशको होम: ॥ ५५ ॥ रुद्रताण्डवविलोकन लोलां भद्रवक्त्रनयनां भवकान्ताम् । अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥ ५६ ॥ वैश्रवण: पक्काशः पिङ्गलनिधिपौ तथैव वित्तेशः । सकुबेरस्वाहान्ताः सव्याहृतय: समीरिता मन्त्राः ॥१७॥ वित्तेशस्यान्तराले दशवटसमिधः सर्पिषाक्ता विविक्ता होतव्या द्रव्यसिद्धवै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ । हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठे ध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसामे ।। मन्त्रैरेतैर्धृतयुत- पायसहोमोऽपि मन्त्रिणां विहितः । 1. हेमाभै रत्नजालैः