पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/६६

पुटमेतत् सुपुष्टितम्
३५५
त्रयोविंशः पटलः ।

 वश्याकृष्टिद्वेषण
  मोहोच्चाटादिकानि यदि वाञ्छेत् ।
 तदर्हया प्रतिपत्त्या
  तत्तत्कर्म प्रसाधयेन्मन्त्री ॥ ३२ ।।

 दिनमनु दिननाथं पूजयित्वा दिनादौ
  नरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री ।
 तदनु तदनुमत्या भस्मना मन्त्रितेन
  प्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम् ।। ३३ ।।

 न्यासोक्तेषु स्थाने
  ष्वपि न्यसेद्भस्मना समन्त्रार्णम् ।
 अखिलोपद्रवशान्त्यै
  संपत्त्यै वाञ्छितार्थसंसिद्धयै ॥ ३४॥

 अथ परराष्ट्रजयेच्छो
  राज्ञः कुर्यात्प्रयोगविधिमेवम् ।
 नरहरिमपि विधिना तं
  हिरण्यकशिपुद्विषं समभ्यर्च्य ॥ ३५ ॥