पृष्ठम्:प्रपन्नपारिजातः.pdf/४

पुटमेतत् सुपुष्टितम्

श्रीरस्तुं
श्री श्रीनिवासपरब्रह्मणे नमः
श्रीमते रामानुजाय नमः
श्रीमते वरदार्यमहागुरवे नमः

॥ प्रस्तावना ॥

ओम् नमो वेङ्कटेशाय जगन्मङ्गलभूमये ।
कृपया दिशते स्वाङ्घ्री प्रपत्तव्यौ स्वपाणिना ॥

नमः श्रीभाष्यकाराय प्रपत्त्यमृतवर्षिणे ।
कृपाप्रसन्नगुरवे वेदान्ताम्बुधिसेतवे ॥

नमोऽस्तु वरदार्याय प्रपन्नाब्जवेिवस्वते ।
वरदाय पयोदाय श्रीभाप्यामृतवर्षिणे ॥

 अखिलप्रपन्नजनविमलमङ्गलमनोरथपरिपूरणपारिजातोsसौ प्रपन्नपारिजात:, प्रपन्नपारिजातस्य परमकारुणिकस्य भगवतः श्रीनिकेतनस्य अमलमङ्गलकरुणाकटाक्षवीक्षणप्रसरणमहिम्ना संगुम्भितायामस्यां अस्मदीयश्रीवैष्णवसम्प्रदायग्रन्थमालायां, वरीवर्ति सर्वाङ्गीणरमणीयं परमवरणीयं गुणपञ्चकपरिमिलितं प्रसन्नमधुरपरिमलपरिमेदुरं पञ्चमं प्रसूनम् ।

ग्रन्थप्रशास्तिः

 जयति सर्वस्वमिवेदं श्रीमत्, श्रीभगवद्रामानुजमुनिपुङ्गवसंप्रतिष्ठापिनस्य सकलप्राणिहितङ्करस्य नित्यनिरवद्यनिगमनिगमान्तादिप्रमाणप्रदीपसमुल्लासितस्य श्रीमतोऽस्य सर्वदर्शनशिरोमणिभूतस्य औपनिषदशुद्धान्तसिद्धान्तस्य श्रीमद्विशिष्टाद्वैतदर्शनकल्पमहीरुहस्य ।

 परमविलक्षणस्य उपादेयतमस्य अस्य प्रबन्धरलस्य सम्पादनेन कृतार्थम्मन्या वयं मोमुद्यामहे । विलक्षणदेशविशिष्टविशिष्ट-ब्रह्मानन्दानुभवरूपस्य मोक्षसाम्राज्यस्य