पृष्ठम्:प्रपन्नपारिजातः.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवत्परिजनेोपासनापद्धतिः ३१ ततदंशे विजानीयात् 'मम कार्यार्थमादरात् । एवमाद्यास्तु सेनेश ! प्रादुर्भावैरधिष्ठिताः ॥ ४० ।। जीवात्मानस्सर्व एते नोपास्या'स्ते मुमुक्षुभेिः । आविष्टमात्नास्ते सर्वे कार्यार्थममितद्युते ॥ ४१ ॥ अनच्याः सर्व एवैते विरुद्धत्वान्महामुने । ‘अहुंकृतियुताश्चैते' जीवमिश्रा ह्यधिष्ठिता:" ॥ ४२ ॥ प्रादुर्भावास्तु मुख्या ये मदंशत्वाद्विशेषतः । 'अजहृत्स्वस्वभावा हि दिव्याः प्राक्रुतविग्रह्ाः ॥ ४३ ॥ दीताद्दीप इवोत्पन्ना जगतो रक्षणाय ते । *अच्या एव हि सेनेश संसृत्युतरणाय वै ॥ ४४ ॥

  • "यथाह भगवान् व्यासः पुराणे च पराशरः ।। “ ब्रह्माणे शितिकण्ठं च याश्चान्या देवतास्तु ता:" ॥ ४५ ॥

प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् " । “अन्ये तु' पुरुषव्याघ्र ! चेतसा'* ये व्यपाश्रयाः ॥ ४६ ॥ अशुद्धास्ते समस्तास्तु" देवाद्याः कर्मयोनयः " ॥ इति श्रीवात्स्यवरदाचार्येमहागुरुभिरनुगृहीते प्रपन्नपारिजाते भगवत्परिजनोपासनापद्धति: षष्ठी श्रीमद्वरदमहागुरुदिव्यचरणनलिने एव शरणमू معلمعهدهيمامهم' وميض *** همامه** ASA SAASAASAASAASAASAASAAAS -یی --------------تی-تی-تی SSAS SSAS SSAS SSAS SSAS 轉 एतदर्थप्रतिष्ठापनाय परमप्रमाणभूते महाभारत-विष्णुपुराणे उपाददते । 1. महावाक्यार्थम्-पा० क, महाकायार्थम्-पा० ग. ४. ६ष्णवैहिं ते-पा०क; ग. 8. महामते-पा० क. 4. अहङ्कतियुसश्वेमे--पा० ग, 5. ह्येते--पॉ० क. 6. मिश्राण्यधिष्ठिताः-पा० ग. 7. अजहत्खभावा ह्येते--पा० क• 8. अनच्यां--पा• ख. 9. यथा हि भारते व्यासः-पl० ग. 10. स्मृताः--पा० क. 11. ये--पा० क. 12, चेतसो-पा० ग. 18, स्युः--पा० ग.