पृष्ठम्:प्रपन्नपारिजातः.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रौः श्रीमते रामानुजाय नमः श्रीमते वरदायेमहृागुरवे नमः ८, अथ विहितव्यवस्थानपद्धतिः अष्टमी । विहितेषु व्यवस्थानं प्रपन्नानां प्रपञ्च्यते । श्रुतिस्मृत्यादिविह्रितं अनुष्ठेयं तु नैत्यकम्' ॥ १ ॥ * “ श्रुतिस्मृतिर्ममैवाज्ञे " त्याह लक्ष्मीपतियैतः । प्रपन्नस्तु विशेषेण शास्रषु विहितान्यपि ॥ २ ॥ * कुर्यात् स्रग्बन्धनादीनि कर्माणि श्रीयतेस्सदा । यथा लक्ष्म्या स्वतन्त्रेऽपि शक्रायेोक्ता’ तु पृच्छते ॥ ३ ॥ * f न्यासविद्यैकनिष्ठस्य विहितेषु व्यवस्थितिः । उपायापायसन्यासी' मध्यमां वृत्तिमाश्रितः ॥ ४ ॥ रक्षिष्यतीति निश्चित्य "विक्षिप्य स्वस्वगोचरः । बुध्येत देवदेवं तं गोप्तारं पुरुषोत्तमम् ॥ ५ ॥ ' शक्रः । उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके । उपायापायतामेव क्रियाः सर्वावलम्बते ॥ ६ ॥ स्वीकरे व्यतिरेके वा निषेधविधिशास्त्रयेोः । दृश्यते कर्मणोऽव्यक्तं उपायापायरूपता ॥ ७ ॥ • गीता । लक्ष्मीतन्त्रश्वेकानुपपादयति । 1. च नैष्ठिकम्-पा० क. 2. कुवैन्-पा० ग. 8. चन्दनादीन--पा. क. 4. अनुपृच्छते--पा० क. 5. सन्त्यागी माध्यमीं स्थितिम्--पा० क, 6. नावबुद्धयेत बुद्धिमान्-पा० क. 7. शक उवाच-पl० ग.