पृष्ठम्:प्रपन्नपारिजातः.pdf/६

एतत् पृष्ठम् परिष्कृतम् अस्ति

5

तस्यासीत्तनयस्त्रिविष्टपतटिन्युद्दामदोराहवै:
वादैर्भग्नमतान्तरक्षितिरुहैस्संदंशेनं दर्शयन् ।
उद्वृत्तप्रतिवादिदत्तबिरुदस्तोमस्समानाधिक
त्यक्तग्रन्थसह्स्रकृत् गुणनिधिः श्रीदेवराजो गुरुः ॥

पुत्रस्तस्य करीन्द्रदिव्यकरुणापात्रस्य विद्वन्मणेः
योगीन्द्रप्रियभागिनेयसुधियः पैौत्रः पवित्रात्मनः ।
श्रीभाष्यप्रमुखपदीपसततारोपैरपास्यं स्तमः
सामस्त्यां वरदाहृयो विजयते वत्सान्वयो देशिक । इति ।

ग्रन्थकर्तॄणां अभिजनविद्यासम्पातिः

 श्रिय: पत्युरत्यन्तप्रियतमे मुक्तिफलदे श्रीमति सत्यव्रतक्षेत्रे श्रीमद्देवाधिनाथभगवन्नित्यकैङ्कर्यनिर्वहणैकतानसकलविधकरणप्रवृत्तय:, परमात्मनि रक्त:, अन्यत्रात्यन्तं विरक्ताः, भगवदत्यन्तप्रीतिपात्रभूता: “नल्लान् (साधुः) इति भगवदनुगृहीत अनितरसाधारणबिरुदभूषणाः श्रीवत्सकुलतिलकायमाना: ’महाकारुणिकः’ इति प्रथिता आचार्यवर्याः प्रशस्तां परमपावनां काञ्चीपुरीमध्यवात्सुः ।

 ते च तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणां मनोहरां महितमङ्गलगुणालयां श्रीमद्रामानुजार्यप्रियभगिनीं कमलानाम्नीं कन्यकामुपयेमिरे ।

 सहधर्मचारिण्या तया सह गार्हस्थ्यमादर्शभूतमनुभवत्सु तेष्वाचार्यवर्येषु, गच्छति च कस्मिंश्चित् काले, प्रपन्नजनभागधेयपरिपाकवैभवेन, भगवतः श्रीमतो वरदराजस्य निर्हेतुकनिरवधिककृपाप्रभावबलेन च सद्गुणनिधयः श्रीमन्तो ’वरदविष्ण्वाचार्या’ इतिं विश्वविख्यातकीर्तयः श्रीसुदर्शनाचार्यापरनामधेयाः तेषां पुत्नरत्नतया समवातरन् ।

 ते च बाल्यात्प्रभृति सुस्निग्धाः भगवद्दिव्यकैङ्कर्यानुष्ठानैकनिरताः अधीतसाङ्गसशिरस्कसकलशाखाश्रुतयः सर्वशास्त्रकलापारंगतः अनन्यसुलभसुतीक्ष्णशेमुषी-