पृष्ठम्:प्रपन्नपारिजातः.pdf/७

पुटमेतत् सुपुष्टितम्

6

वैभवेन श्रीभगवद्रामानुजाचार्याणां तन्मातुलचरणानां निरुपाधिकनिरवधिकप्रीतेिमापन्नाः प्रत्यर्थिवावदूकविततिविजयेन सन्तुष्टान्तरङ्गैस्तै: ’प्रियभागिनेय’ इति प्रदत्तदिव्यबिरुदा: अनितरसुलभं श्रीभाष्यसिंहासनं तदीयनिखिलचिह्नैस्साकमवापुः । यथोक्तमभियुक्तैः -

सत्कुर्वता संसदि शिष्यवर्गान्
अनन्यलभ्यैरखिलैः स्वचिह्नैः ।
श्रीभाष्यसिंहासनमात्मनीनं
यस्मै च दत्तं यतिशेखरेण ॥ इति,
श्रीरामानुज सद्वीक्षाफलमेतन्महात्मनः ।
प्रियस्वस्रीयताराज्यमासीत् प्राज्यं कुलेशितुः ॥ इति च ।

एतेर्षा विषये अनुसन्धीयमानौ ’तनियन्’ श्लोकौ; यथा -

यस्मिन् पदं यतिवरस्य मुखात्प्रणेतुं
निष्क्रामदेव निदधे निगमान्तभाष्यम् ।
तस्यैव तं भगवतः प्रियभागिनेयं
वन्दे गुरुं वरदविष्णुपदाभिधेयम् ॥
ज्ञानोत्तमोद्धतिनिराकरणप्रतुष्यत्-
रामानुजार्यकरुणापरिणामपात्रम् ।
वत्सान्ववायतिलकं वसतिं गुणानां
वन्दामहे वरदविष्णुगुरुं वरेण्यम् ॥ इति ॥

 तेषां च अनन्यसामान्यवैदुष्यभूषिताः विजितप्रतिवादेिदत्तबिरुदस्तोमाः विजितप्रतिवादेिदत्तबिरुदस्तोमाः निस्समाभ्यधिकग्रन्थसहस्रप्रणेतारः सद्गुणनिधयः श्रीदेवराजगुरवः पुत्ररत्नमभवन् । तद्विषयोऽयं श्लोक: –