पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

६. १.] पश्नोपनिषत् इत्येवमादिभ्यः । न चान्तरिक्षात्परश्चतुर्मुखलोकः । मध्ये स्वर्गलोकादीनां बहूनां सद्भावात । अतः “एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवा- यतनेनैकतरमन्वेति" इति प्रतिवचने यदपरं कार्यं ब्रह्म निर्दिष्टं तदैहिकामुष्मिकत्वेन द्विधा विभज्य एकमात्रं प्रणवमुपासीननामैहिकं मनुष्यलोकावाप्तिरूपं फलमभिधाय द्विमात्रमुपासीनानामामुष्मिकमन्तरिक्षशब्दोवलक्षितं फलञ्चाभिधाय त्रिमात्रेण परब्रह्म- वाचिना प्रणवेन : परमपुरुष ध्यायतां परमेव ब्रह्म प्राप्यतयोपदिशतीति सर्वं समञ्जसम् । अत ईक्षतिकर्म परमात्मेति ॥ इति प्रश्नोपनिषद्भाष्ये पञ्चमः प्रश्नः ननु त्रिमात्रप्रणवप्रकरणे अर्वाचीनफलप्रतिपादनमसजातमिति चेन्न । त्रिमात्रत्वप्रशंसा- परत्वात् तस्य । एकमात्रत्वेन द्विमात्रत्वेन च अस्य लोकस्य अन्तरिक्षस्य च यः प्रापकः स एवं प्रणवः त्रिमात्रत्वेन तदुभयविलक्षणपरवासुदेवलोकप्रापक इति त्रिमात्रत्वं अतिप्रशस्तमिति । अत एव त्रिमात्रसाध्यफलस्यैव यत्तत् कवय इति, यत् तच्छान्तमिति च वैलक्षण्यातिशयो वर्णित इति विभाव्यम् । गत्वा चेति । अन्वेतीतस्य अनु मरणानन्तरं एति प्राप्नोतीत्यर्थः । तत्र उपसर्गार्थस्यानतिप्रयोजनत्वात् तमुपेक्ष्य गमनमात्रमनूदितम् । इदमुपसर्गस्य मन्दफलत्वमगत्या अशोकृतम् । पूर्वं तु सार्थक्ये सम्भवति तत्परित्यागायोगात् अनुवृत्तमयनं गमनं वेदनम् , उपासनामिति व्याख्यातम् । इति पञ्चमप्रश्नटिपणी. अथ षष्ठः प्रश्नः हरिः ओम् ॥ अथ हैन सुकेशा भारद्वाजः पप्रच्छ। भगवन् हिरण्यनाभः कोसल्यो राजपुत्रो मामुपेत्यैतं' प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ तमहं कुमारमब्रुवं' नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति समूलो 'या एष परिशु- ष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुं स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १॥ अथ हैनं सुकशेत्यादि । स्पष्टोऽर्थः । (भगवन्निति)। हे भगवन् हिरण्यनाभनामा कोसलदेशाधिपती राजपुत्रो मत्समीपमागत्य इमं वक्ष्यमाणं प्रश्नं 1. बा. ना. पू. 'एन' । 2. प्र. 'अत्रवम्'। 3. आ ना. पू. 'समूलोह।