पृष्ठम्:प्रस्थानभेदः.djvu/११

पुटमेतत् सुपुष्टितम्
प्रस्थानभेदः ।

च्छन्दोज्ञानकाङ्क्षायाम्, तत्प्रकाशनाय 'धीः श्री: स्त्रीम्’ इत्याद्यष्टाध्याय्यात्मिका च्छन्दोविवृतिर्भगवता पिङ्गलेन विरचिता । ‘तत्राप्यलौकिकम्’ इत्यादिनाध्यायत्रयेण गायत्त्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगतीति सप्त च्छन्दांसि सावान्तरभेदानि निरूपितानि । ‘अथ लौकिकम्’ इत्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि च्छन्दांसि प्रसङ्गान्निरूपितानि व्याकरणे लौकिकपदनिरूपणवत् ॥

 एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्यौतिषं भगवता आदित्येन गर्गादिभिश्च प्रणीतं बहुविधमेव ।

 शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि । तानि च प्रयोगत्रयभेदात्त्रिविधानि-- तत्र हौत्रप्रयोगप्रतिपादकान्याश्वलायनशाङ्खायनादिप्रणीतानि; आध्वर्यवप्रयोगप्रतिपादकानि बोधायनापस्तम्बकात्यायनादिप्रणीतानि; औद्गात्रप्रयोगप्रतिपादकानि लाट्यायनद्राह्यायणादिप्रणीतानि ॥