पृष्ठम्:प्रस्थानभेदः.djvu/१५

पुटमेतत् सुपुष्टितम्
१३
प्रस्थानभेदः ।

त्मकत्वाद्विचारस्य । तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्परविरोधः पूर्वभागेण परिहृतः; उत्तरभागेण तु जीवविषयाणाम् । चतुर्थपादे इन्द्रियविषयश्रुतीनां विरोधः परिहृतः । तृतीयेऽध्याये साधननिरूपणम् । तत्र प्रथमे पादे जीवस्य परलोकगमनागमननिरूपणेन वैराग्यं निरूपितम् । द्वितीये पादे पूर्वभागेण त्वंपदार्थः शोधितः, उत्तरभागेण तत्पदार्थः । तृतीये पादे निर्गुणे ब्रह्मणि नानाशाखापठितपुनरुक्तपदोपसंहारः कृत:; प्रसङ्गाच्च सगुणनिर्गुणविद्यासु शाखान्तरीयगुणोपसंहारानुपसंहारौ निरूपितौ । चतुर्थे पादे निर्गुणब्रह्मविद्याया बहिरङ्गसाधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि शमदमादीनि श्रवणनिदिध्यासनादीनि च निरूपितानि । चतुर्थेऽध्याये सगुणनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमे पादे श्रवणाद्यावृत्त्या निर्गुणं ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीये पादे म्रियमाणस्योत्क्रान्तिप्रकारश्चिन्तितः । तृतीये पादे सगुणब्रह्मविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थे पादे पूर्वभागेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरुक्ता; उत्तरभागेण