पृष्ठम्:प्रस्थानभेदः.djvu/२०

पुटमेतत् सुपुष्टितम्
१८
प्रस्थानभेदः ।

 तथा पशुपतिमतं पाशुपतं शास्त्रं पशुपतिना पशुपाशविमोक्षणाय 'अथातः पाशुपतं योगविधिं व्याख्यास्यामः' इत्यादि पञ्चाध्यायं विरचितम् । तत्राध्यायपञ्चकेनापि कार्यरूपो जीवः पशुः, कारणं पतिरीश्वरः, योगः पशुपतौ चित्तसमाधानम्, विधिर्भस्मना त्रिषवणस्नानादिर्निरूपितः; दुःखान्तसंज्ञो मोक्षश्च प्रयोजनम् । एत एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते ॥

 एवं वैष्णवं नारदादिभिः कृतं पञ्चरात्रम् । तत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः । भगवान्वासुदेवः सर्वकारणं परमेश्वरः । तस्मादुत्पद्यते संकर्षणाख्यो जीवः । तस्मान्मनः प्रद्युम्नः । तस्मादनिरुद्धोऽहंकारः । सर्वे चैते भगवतो वासुदेवस्यैवांशभूतास्तदभिन्ना एवेति भगवतो वासुदेवस्य मनोवाक्कायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भवतीत्यादि च निरूपितम् ॥

 तदेवं दर्शितः प्रस्थानभेदः । सर्वेषां च संक्षेपेण त्रिविध एव प्रस्थानभेदः-- तत्रारम्भवाद एकः; परिणामवादो द्वितीयः; विवर्तवादस्तृतीय: । पार्थिवाप्यतैजसवायवी