पृष्ठम्:प्रस्थानभेदः.djvu/३

पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

॥ प्रस्थानभेदः ॥


 अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति समासेन तेषां प्रस्थानभेदोऽत्रोद्दिश्यते । तथा हि-

 ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्चत्वारः । शिक्षा व्याकरणं निरुक्तं छन्दो ज्यौतिषं कल्प इति वेदाङ्गानि षट् । पुराणन्यायमीमांसा धर्मशास्त्राणि चेति चत्वार्युपाङ्गानि । अत्रोपपुराणानामपि पुराणेऽन्तर्भाव:, वैशेषिकशास्त्रस्य न्याये, वेदान्तशास्त्रस्य मीमांसायाम्, महाभारतरामायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रे; एवं मिलित्वा चतुर्दश विद्याः । तथा चोक्तं याज्ञवल्क्येन-- 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां