पृष्ठम्:प्रस्थानभेदः.djvu/५

पुटमेतत् सुपुष्टितम्
प्रस्थानभेदः ।

 अथ संक्षेपेणैषां प्रस्थानानां स्वरूपभेदे हेतुः प्रयोजनभेद उच्यते बालानां व्युत्पत्तये--

 तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं वेदः । स च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रा अनुष्ठानकारकभूतद्रव्यदेवताप्रकाशकाः । तेऽपि त्रिविधा ऋग्यजुःसामभेदात् । तत्र पादबद्धगायत्र्यादिच्छन्दोविशिष्टा ॠचः 'अग्निमीळे पुरोहितम्' इत्याद्याः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि । 'अग्नीदग्नीन्विहर' इत्यादिसंबोधनरूपा निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं निरूपिता मन्त्राः ॥

 ब्राह्मणमपि त्रिविधं विधिरूपमर्थवादरूपं तदुभयविलक्षणरूपं चेति । तत्र शब्दभावना विधिरिति भाट्टाः । नियोगो विधिरिति प्राभाकराः । इष्टसाधनता विधिरिति तार्किकादयः सर्वे । विधिरपि चतुर्विध उत्पत्त्यधिकारविनियोगप्रयोगभेदात् । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः 'आग्नेयोऽष्टाकपालो भवति' इत्यादिः । सेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिः 'दर्श