दुपकारकं चेति । तत्र प्रधानस्वरूपनिर्वाहकं प्रथमम् । फलोपकारि द्वितीयम् । एवं संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकलाङ्गसंयुक्तो विधिर्विकृतिः । तदुभयविलक्षणो विधिर्दर्विहोमः । एवमन्यदप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्षणया विधिशेषभूतं वाक्यमर्थवादः । स च त्रिविधः गुणवादोऽनुवादो भूतार्थवादश्चेति। तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवादः 'आदित्यो यूपः’ इत्यादि: । प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः 'अग्निर्हिमस्य भेषजम्’ इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको भूतार्थवादः 'इन्द्रो वृत्राय वज्रमुदयच्छत्’ इत्यादिः । तदुक्तम्-- ‘विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानार्थवादस्त्रिधा मतः' इति । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानां स्वार्थेऽपि प्रामाण्यं देवताधिकरणन्यायात् । अबाधिताज्ञातज्ञापकत्वं हि प्रामाण्यम् । तच्च बाधितविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः । भूतार्थवादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्सर्गिकं प्रामाण्यं न वि
पृष्ठम्:प्रस्थानभेदः.djvu/७
पुटमेतत् सुपुष्टितम्
५
प्रस्थानभेदः ।