पृष्ठम्:प्रस्थानभेदः.djvu/८

पुटमेतत् सुपुष्टितम्
प्रस्थानभेदः ।

हन्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयविलक्षणं तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्रतिपादकत्वान्न विधिः; स्वत: पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि स्वार्थ उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतः प्रमाणभूतम्, सर्वानपि विधीनन्तःकरणशुद्धिद्वारा स्वशेषतामापादयत्, अन्यशेषत्वाभावाच्च नार्थवादः । तस्मादुभयविलक्षणमेव वेदवाक्यम् । तच्च क्वचिदज्ञातज्ञापकत्वमात्रेण विधिरिति व्यपदिश्यते, विधिपदरहितप्रमाणवाक्यत्वेन क्वचिद्भूतार्थवाद इति व्यवह्रियत इति न दोषः । तदेवं निरूपितं त्रिविधं ब्राह्मणम् । एवं च कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः ॥

 स च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन । ब्राह्मयाजमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तः शान्तिपौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवं प्रवचनभेदात्प्रतिवेदं भिन्ना भूयस्यः शाखाः । एव च कर्मकाण्डे व्या